पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । ( १६७) यणादेशः । तं रणे हन्तुं कपिना सुग्रीवेणाह्वाययत् अभिभवं कारितवान् । ह्वयतेर्हेतुमण्णिचि ‘शाच्छासाह्वाव्यावेपां युक् |७|३|३३७|' इति युक् ।। १२१ । ' तयोर्वानरसेनान्योः सम्प्रहारे तनुच्छिदम् । बालिनो दूरभाग्रामो बाणं प्राणा दमत्यजत् ।। १२२ ।। योरित्यादि-वानरसेनान्योः वानरस्वामिनोः वालिसुग्रीवयोरित्यर्थः । ‘एरनेकाचोऽसंयोगपूर्वस्य | ६ | १४|४८२ || इति यण् । संहारे युद्धे प्रवृत्ते रामो बाणमत्यजत् । वालिनस्तनुच्छिदं तनुं शरीरं छिनत्तीति पूर्ववत् किप् । 'छे “च । ६ । १ । ७३ ।। इति तुकू । प्राणादं प्राणापहारिणम् । प्राणानत्तीति प्राणादम् । 'अदोऽन्ने ||२|| इति । दूरभाक् दूरमवस्थितो रामो दूरं भजत इति 'भजो विः |१||२|६२' इति ण्विः ||१२२ ॥ वालिनं पतितं दृष्ट्वा वानरा रिपुवातिनम् | बान्धवाऽऽक्रोशिनो भेजुरनाथाः ककुभो दश ॥ १२३ ॥ वालिन मित्यादि - रिघुघातिनं रिपून् हन्तुं शीलमस्योते 'सुप्यजातौ णिनिस्ताच्छील्ये । ३ । २ । ७८ । । तं वालिनं पतितं दृष्ट्वा वानरा दश ककुभो दश दिशो भेजुः । अनाथा: सन्तः स्वामिनो हतत्वात् । बान्धवाक्रोशिनो बान्धवा इव आक्रोशन्तीति 'कर्तपम |३|२|७९१' इति णिनिः ॥ १२३ ॥ धिग्दाशरथिमित्यूचुर्मुनयो वनवर्तिनः । उपयुमधुपायिन्यः क्रोशन्त्यस्तं कपिस्त्रियः ॥ १२४ ॥ धिगित्यादि- येषां सत्यन्यस्थाने वृत्तौ च वन एव वर्तितुं शास्त्रतो नियमः ते वनवर्तिनो वानप्रस्थाश्रमधर्म्मपालनपरा मुनयः । 'व्रते |३|२|८०|' इति णिनिः । घिगिमं दाशरथिमित्यूचुः उक्तवन्तः । दशर- थस्यापत्यं पुमानिति तादृशं राममित्यर्थः । 'अत इञ् ४|११९५१ इति इञ् । येनानपराधेऽपि वालिनीदृशं कृतमिति । कपिस्त्रियश्च वालिनमुपेयुः ॥ मधुपायिन्य: आभीक्ष्ण्येन मधु पिबन्त्यः । 'बहुलमाभीक्ष्ण्ये ।३।२१८११' इति णिनिः । क्रोशन्त्यः 'हा नाथ !' इति रुदन्त्यः ॥ १२४ ॥ १ वानराणां सेनापत्योरित्यर्थः । 'सेनानीर्वाहिनीपतिः । इत्यमरः । लक्षणवा पुनर्वानराधीशयोरित्यभिप्रायः । २ युद्धभूमावित्यर्थः । 'सम्प्रहाराभिसम्पातकलि- संस्फोटसंयुगाः ।' इत्यमरः ।