पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- व्यायच्छमानयोर्मूढो भेदे सदृशयोस्तयोः । भाणमुद्यतमायंसीदिक्ष्वाकु कुलनन्दनः ॥ ११९ ॥ (१६६) [ षष्ठः- व्यायच्छेत्यादि-तयोर्वालिसुग्रीव योर्व्यायच्छमानयोः कलहायमानयोः सदृशयोः समानयोः भेदे पृथक्त्वे मूढो भ्रान्तः सन् इक्ष्वाकुकुलनन्द- नो रामो वाणमुद्यत' सज्जीकृतमायसीत् उपसंहृतवान् । 'समुदाहुभ्यो यमो ग्रन्थे ।१।३।७५|' इति तङ् न भवति । अकर्त्रभिप्रायत्वात् । तत्र 'कर्त्रभिप्राये' इति 'वर्तते । 'आङो यमहनः | १३|२८|| इत्यनेनापि न स्यात् सकर्मकत्वात् । तत्र 'अकर्मकात्' इति वर्तते । समानपूर्वस्य दृशेः 'समानान्ययोश्च' इत्युपसंख्यानात् 'त्यदादिषु दृशोऽनालोचने कश्च । ३ | २ | ६० ।' इति कञ् । 'हग्दृश्वतुषु | ६|३|८९ । इति समानस्य सभावः ॥ ११९ ॥ ऋष्यमूकमगात्क्लान्तः कपिर्मृगसदृग् द्रुतम् । किष्किन्धाऽद्रिसदाऽत्यर्थं निष्पिष्टः कोष्णमुच्छ्छ्सन् ॥ १२० ॥ ऋष्यमूकमित्यादि-कपिः सुग्रीवः किष्किन्धाद्रिसदा किष्किन्धाद्रिनि- वासिना वालिना किं किं दधातीति किष्किन्धाऽद्रिविशेषस्य गुहा । ‘आतोऽनुपसर्गे कः |३|२|३|' इति कः । 'पारस्करप्रभृतीनि च सञ्ज्ञा- याम् ६।१।१५७' इति पूर्वस्य सुडागमो मलोपः षत्वं च निपात्यते तदुपलक्षितोऽद्रिः किष्किन्धाद्रिः । तत्र सीदतीति 'सत्सूद्विपद्रुहदुहयुजविदभिद- च्छिद जिनीराजामुपसर्गेऽपि किप् | ३|२|६१।' इति किप् | तैनात्यर्थं निष्पिष्ट: पडितः । निष्पिष्टत्वात् कान्तः सन् ऋष्यमूकं मृगसदृक् द्रुतमगात् । समानोपपदात् दृशे: पूर्ववत् किन् । कोण्णमीपदुष्णमुच्छ्रसन् । 'कवं चोष्णे |६|३|१०७' इति चकारात् कोः कादेशः ॥ १२० ॥ कृत्वा वालिद्रहं रामो मालया सविशेषणम् । अङ्गर्दस्वं पुनर्हन्तुं कपिनाऽऽह्वाययद्रणे ॥ १२१ ॥ कृत्वेत्यादि - वालिद्रुहं सुग्रीवम् । वालिने द्रुह्यतीति 'सत्सूद्विपदुद्रुह- युजविद्भिदच्छिजिनीराजामुसपर्गेऽपि किप् |३|२|१|| मालया सविशेषणं सचिह्नं कृत्वा भेदपरिज्ञानार्थ रामः अङ्गदस्वं वालि- नम् । अङ्गदं सूत इति पूर्ववत् किन् 'ओ: सुपि ।।६।४।८३|' इति १ तदाख्यं पर्वतम् । २ मृगसदृक् मृगवदिति भावः ।