सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ] अधिकारकाण्डम् | ( १६५ ) जिज्ञासोरित्यादि – अस्त्राणां शस्त्राणां शराणामिति यावत् । 'आयुध तु प्रहरणं शस्त्रमस्त्रम्' इत्यमरः । शक्तिं जिज्ञासो: ज्ञातुमिच्छोः कपेः सुग्रीवस्य न्यूनधियः स्वल्पबुद्धेः। यतः प्रमाणान्तरेणापरिज्ञानात् प्रत्यक्षेण ज्ञातुमिच्छतीति प्रतिपत्त्यर्थं सम्प्रत्ययार्थं रामः सप्त तरून् तालानं पतथा स्थितान् एकेन शरेणाभिनत् । व्योमम्पृशः । 'स्पृशोऽनुदके क्विन् | ३|२|५|| || ११६ ॥ ततो वालिपशौ वध्ये रामबिग्जितसाध्वसः | अभ्यभून्निलयं भ्रातुः सुग्रीवो निनदन्दधृ || ११७ ॥ . तत इत्यादि- ततस्तरुभेदनादनन्तरं सुग्रीवो भ्रातुनिलयं किष्किन्ध पुरीमभ्यभूत् अभिभूतवान् । कीदृशः दधृक् धृष्टः । 'ऋत्विग् दधृदि- गुष्णिगञ्चुयुजिक्रुञ्चांच ।३।२।५९।' इति निपातितम् धृषेः क्किन् । द्विर्वचनम् । 'किन्प्रत्ययस्य कुः । ८ । २ । ६२ । ' इति कुत्वं खकारः चव ककारः । यस्माद्वालिनि पशाविव वध्ये वधाईँ । रामेण ऋत्विजा याजकेन जितसाध्वस: अपनीतसाध्वसः । तस्मादधृक् । ऋतौ यजति ऋतुं वा यजति ऋतुप्रयुक्तो वा यजतीति ऋतुपूर्वाद्यजेः क्छिन् । यजादित्वात् सम्प्रसारणम् ! इदमृत्विकशब्दनिर्वचनम् । रूढितस्तु याजय- तृषु ब्राह्मणेषु किन्प्रत्ययस्य कुः । निनदन् किलकिलाशब्दं कुर्वन् ॥ ११७ ॥ गुहाया निरगाद्वाली सिंहो मृगमिव द्यु॒वन् । भ्रातरं युङ् भियः सङ्ख्चे घोषेणाऽऽपूर्यन्दिशः ॥ ११८ ॥ गुहाया इत्यादि--तस्य शब्दमाकर्ण्य गुहाया निरगाद्वाली निर्गतः । 'इणो गा लुाङ |२|४|४५।। 'गातिस्थाधुपाभूभ्यः सिचः परस्मैपदेषु । २।४।७७ |' इति सिचो लुक् । भ्रातरं युवन् अभिगच्छन् । 'यु अभिगमने' अस्यादादि- कस्य वर्तमानसामीप्ये लट: शतरि उवङादेशे रूपम् । सङ्ख्ये युद्धे । भियो युङ् भीतेर्योक्ता । कर्मणि षष्ठी । भीतिं युञ्जन्नित्यर्थः । युजे: पूर्ववत् छिन् । 'युजेरसमासे १७११९ १७१|| इति नुम् । संयोगान्तलोपः । ‘क्विन्प्रत्ययस्य कुः | ८|२|६२ | इति ङकारः । कः कमिव | सिंहो मृगमिव द्युवन् । घोषेण दिशः आपूरयन् । दिशन्ति इति दिशः । पूर्ववत् क्विन् ॥ ११८॥ १ अन्न ' न लोकाव्ययनिष्ठाखलर्थतनाम् २ | ३ | ६९' इति षष्ठीनिषेधात् कर्म्मधिवक्षया द्वितीया | २ तालवृक्षान् । ३ एकपङ्क्तिरूपेण स्थितानित्यर्थः । १४ अत्युच्चा नित्यभिप्रायः । ५ अत्रोपमारूपकयोः सन्देहसङ्करः । ६ 'मृधमास्कन्दनं संख्यं समकं साम्परायिकम् |' इत्यमरः ।