पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१६४) भट्टिकाव्ये जयमङ्गलासमेते- [ षष्ठः- ‘अमनुष्यकर्त्तृके च |३|२|५३|' इति टक् | हस्तिन्न इव हस्तिन्नः हन्तुं शक्तः। 'शक्तौ हस्तिकपाटयोः |३|२|५४|| इति सूत्रस्य मनुष्य कर्तृकार्यारम्भकत्वात् । वाली चामनुष्यः । शिल्पिभिर्युद्धकुशलेः वानरैः सह क्षिप्यन् । सहाय गम्यमानत्वात् सहयोगे तृतीया । पाणिवैः पाणिवादकैः। ते हि हस्तियुद्धेऽन्यस्य वाद्यत्यासंभवात् हस्तिमुखमेव वादयित्वा गिरीन् प्रहरणान् क्षिप्यन्ति । 'पाणिघताडघौ शिल्पिनि । ३ । २ ।५५ ।। इति कर्तरि निपातनम् ।। ११३ ॥ आढयङ्करणविक्रान्तो महिषस्य सुरद्विषः । प्रियङ्करणमिन्द्रस्य दुष्करं कृतवान्वधम् ॥ ११४ ॥ आठ्यमित्यादि - अनाढयमाढ्यं करोत्यनेनेति । 'आढयसुभग- 'स्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्चौ कृञः करणे ख्युन् । ३ । २ । ५६ ।' इति करणे ख्युन् । आढङ्करणं विक्रान्तं यस्य वालिनः | अनाढ्यः सन् विक्रान्तेनाढयो भूत इत्यर्थः । महिषस्य सुरद्विषो दुन्दुभेर्वधं मरणं यः कृतवान् दुष्करं कृच्छ्रसाध्यं प्रियंकरणमिन्द्रस्य तुष्टिकरम् । अप्रियं प्रियं करोत्यनेनेति पूर्ववत् ख्युन् ॥ ११४ ।। प्रियम्भावुकतां यातस्तं क्षिपन्योजनम्मृतम् । स्वर्गे प्रियम्भविष्णुश्च कृत्स्त्रं शक्तोऽप्यबाधयन् ॥ ११५ ॥ । प्रियमित्यादि -- तमेवं सुरद्विषं मृतं पादाङ्गुष्ठेन योजनमध्वानं क्षिपन् प्रेरयन् । क्षिपेस्तौदादिकस्योभयपदिनो रूपम् । श्रियम्भावुकतां यातस्तथा स्वर्गे प्रियम्भविष्णुश्चासीत् । 'कर्तरि भुवः खिष्णुचखुकञौ | ३ | २ |५७ | १ इत्यनेनाढयादिपूपपदेषु खिष्णुच्खुकन्नौ । शक्तोऽपि समर्थोऽपि कृत्स्नं लोक- मित्यर्थात् । अबाधयन् अपीडयन् । 'बध संयमे' इति चौरादिकः तस्य शतरि रूपम् । स ईदृशस्त्वया शक्यो जेतुं यदि त्वदत्राणां सामर्थ्य दृष्टमित्यभि प्रायेणाब्रवीत् सुग्रीवः ॥ ११५ ॥ रामोऽपि तदभिप्रायं विदन् यत् कृतवान् तदाह -- - जिज्ञासोः शक्तिमस्त्राणां रामो न्यूनधियः कपेः । अभिनत्प्रतिपत्त्यर्थं सप्त व्योमस्पृशस्तरून ॥ ११६ ॥ १ हस्तिनं गजमपि हन्तुं क्षमः सिंह इवेति वक्तव्यम् । २ हस्ततालशब्दका रिभिरिति भावः | ३ महिषाकारस्येत्यर्थः ।