पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । अतिप्रियत्वा नहि मे कातरं प्रतिपद्यते । चेतो वालिववं राम ! क्लेशापहमुपस्थितम् ॥ १११ ॥ - अतीत्यादि — हे राम! मदीयं चैतो वालिवधं कर्मीभूतमुपस्थितं प्राप्तं नहि प्रतिपद्यते नैव प्रत्येति निश्चिनोति इत्यर्थः । यस्मात् कातरं व्याकु- लम्, वालिनोऽतिबलयुक्तत्वात् । कीदृशं वधं क्लेशापहं दुःखस्योन्मूलकम् । पूर्वदुः । अतिप्रियत्वाद्वालिवधस्य | यस्य हि यत्प्रियं. तत्सिद्धमेपि असौ न प्रत्येति ।। १११ ॥ इति डाधिकारः । उपस्थितोऽस्य वध इति कथं ज्ञायत इत्याह -- (१६३) शीर्षघातिनमायातमरीणां त्वां विलोकयन् | पतिघ्नीलक्षणोपेतां मन्येऽहं वालिनः श्रियम् ॥ ११२ ॥ शीषेंत्यादि - अरीणां शत्रूणां शीर्षघातिनं मस्तकच्छेत्तारमित्यर्थः । ' कुमारशीर्षयोर्णिनिः । ३ । २ । ५१ ।। इति निपातनात् शिरसः शीर्ष- भावः । आयातं विलोकयन् वालिनः श्रियं पतिघ्नीलक्षणोपेतामह मन्ये । पतिं हन्ति यल्लक्षणं तेनोपेतामिवेतीवार्थोऽत्र द्रष्टव्यः । 'अमनुष्यकर्तृके च ।३।२।५३।' इति टक् । ‘गमहनजनखनघसां लोप: क्लिङियनङ ६|४|१८| 'इस्युपधालोप: । 'हो हन्तेषु |७|३|५४ | इति कुत्वम् ।। ११२ ।। शत्रुघ्नान्युधि हस्तिन्नो गिरीक्षिप्यन्नकृत्रिीमान् । शिल्पिभिः पाणिघैः क्रुद्धस्त्वया जय्योऽभ्युपायवान् ॥ ११३ ॥ शत्रुघ्नानित्यादि – किञ्च युधि संग्रामे वाली त्वया जय्य: जेतुं शक्यो यदि युष्मदत्राणां शक्तिर्दृष्टा तां च द्रष्टुमिच्छामीति वक्ष्यमाणाभिप्रायः । 'क्षय्यजय्यौ शक्यार्थे । ६ | १ |८१ | १ इत्ययादेशनिपातनम् । कीदृशः अभ्यु- पायवान् युद्धोपाययुक्तः। किं कुर्वन् क्रुद्धः क्षिप्यन् गिरीन् । 'दिवादिभ्यः श्यन् । ३।१।६९।' इति श्यन् । अकृत्रिमान् देवनिर्मितान् । शत्रुघ्नान् शत्रून् हन्तीति १ 'चित्तं तु चेतो हृदयम्' ३ 'अपे क्लेशतमसोः । ३ । २ । ५० त्याजिसमिद्बुधः' इत्यमरः । लशिलोच्चयाः ।' इत्यमरः । इत्यमरः । २ आह्लादकमिति भावः । इति शास्त्रेणेति शेषः । ४ 'संयत्समि ५ पर्वतानित्यर्थः । 'अद्विगोत्रगिरिग्रावाचरुरौ-