पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- वसुन्धरायां कृत्स्नाय नाऽस्ति वालिसमो बली । हृदयङ्गममेतत्त्वां ब्रवीमि न पराभवम् ॥ १०८ ।। -- वसुन्धरायामित्यादि - वसुन्धरायां पूर्ववत् खच । वालिना समोऽन्यो बली बलयुक्तो नास्तीति हृदयङ्गमं मम । स्वानुभवं हि वस्तु हृदयङ्गममित्यु- च्यते । तेन संज्ञायामित्यधिकृत्य 'गमञ्च |३|२|४७ |' इति खचू । न पुन- स्त्वां पराभवमभिभवं ब्रवीमि ॥ १०८ ॥ इति खजधिकारः । एवंपराक्रमोऽसौ तत्र किं त्वं करिष्यसीत्याह- दूरगैरन्तगैच णैर्भवानत्यन्तगः श्रियः । अपि संक्रन्दनस्य स्पात् क्रुद्धः किमुत वालिनः ॥ १०९ ॥ [ षष्ठः- दूरगैरित्यादि---यतो भवान् क्रुद्धः सन् सङ्क्रन्दनस्यापि शक्रस्यापि ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ३ | १ | १९३४ |' इति ल्युः । बाणैः करणभूतैः । दूरगैः दूरं गच्छन्तीति । अन्तगैः कार्यसमापैकैः । 'अन्तात्यन्ताध्वदूरपार- सर्वानन्तेषु डः | ३|२|४८|' इति डः । त्रियो लक्ष्म्याः अत्यन्तगः विनाश- यता स्यात् । अत्यन्तं पर्यवसानं गच्छतीति । किं पुनर्वालिनो राजलक्ष्म्या अत्मन्तगो भवान्विनाशयितेति ।। १०९ ॥ वरेण तु मुनेर्वाली संजातो दस्युहो रणे । अवार्यप्रसरः प्रातरुद्यन्निव तमोऽपहः ॥ ११० ॥ वरेणेत्यादि —मुनेस्तु वरेण दस्युहः दस्थून शत्रून् वध्यादिति । 'आशिषि हनः ।३।२।४९।' डः । अतो रणे अवार्यनसरोऽनभिभवनीयगतिः सञ्जातः । क इव तमोऽपह इव । तमोऽपहः आदित्यैः । तमोऽपहन्तीति । 'अपेक्लेश- तमसोः ।३।२।५९।' इति डः । प्रातः प्रभाते उद्यन् उद्गच्छन् । उत्पूर्वादिणः शतरि ‘इणो यणू’ । अवार्यप्रसरस्तद्वदसात्रपि । 'सर्व वाक्यं सावधारणं भवति' इति न्यायेन प्रातरप्युद्यन्नवार्यप्रसर एवेति भावः । तेन सर्वकाले अस्यावार्य प्रसरत्वं सिद्धं, न तु प्रातरेवोद्यन्नवार्यप्रसर इति बोध्यम् ॥ ११० ।। १ 'सकन्दनो दुध्यवनस्तुपारा प्रघेवाहनः ।' इत्यमरः | २ कार्यसाधकैरिति भावः । ३ 'द्विडूविपक्षाहितामित्र दस्युशात्रवशत्रवः ।' इत्यमरः । ४ सूर्य इति यावत् । ५ न वार्यः वारयितुं ( निवारयितुं ) शक्यः प्रसरः प्रभावाधिकारो यस्य स इति 1