सर्मः ] अधिकारकाण्डम् | ( १६१) कुमान्वितो ग्लानो वालिभानुना पीडितत्वात् । कीदृशं रामं मेघङ्करमृतुमिक प्रावृट्कालमिव । ‘मेघर्तिभयेषु कृञ्ः |३|२||४३|' इति खच ॥ १०४ ॥ उपाग्न्यकुरुतां सख्यमन्योन्यस्य प्रियङ्करौ । क्षेमङ्कराणि कार्याणि पर्यालोचयतां ततः ॥ १०६ ।। उपाग्नीत्यादि -- उपाग्नि अग्निसमीपे 'अव्ययं विभक्तिसमपसमृद्विव्यद्धय- र्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथाऽनुपूर्व्ययौगपद्यसादृश्यसम्पत्ति- साकल्यान्तवचनेषु २|१|६|' इति समासः । ( रामसुग्रीवौ ) सख्यमकुरुताम् । 'इतः प्रभृत्यावयोः सख्यम्' इति । अन्योन्यस्य प्रियङ्करौ । 'क्षेमप्रियमद्रे- ऽण् च |३|२|४|४|' इति चकारात् खच् । ततः सख्यकरणानन्तरं क्षेमङ्क- राणि हितजनकानि । यथास्वं कार्याणि प्रत्यालोचयतां निरूपितवन्तावि- त्यर्थः । पटपुटेत्यत्र चुरादिकाण्डे धातौ 'लोचू'पठयते तस्य लङि रूपम् ।। १०५३ 250m आशितम्भवमुत्कुष्टं वल्गितं शयितं स्थितम् । वह्वमन्यत काकुत्स्थ: कपीनां स्वेच्छया कृतम् ॥ १०६ ॥ आशितम्भवमित्यादि --- आशितम्भवमशनम् । 'आशिते भुवः करणभा - वयोः ।३।२।४५।' इति खच । उत्क्रुष्टं किलकिलायितम् । वल्गितं धाव नम् । तथा शयितं स्थितं च । कपीनां स्वेच्छया कृतम् एतत्काकुत्स्थो बह्वम न्यत लाघितवान् | पुण्यभाज इमे यदेषां स्वेच्छाविहारिणां चेष्टितम् । अस्माकं तु शोकसन्तप्तानां न किंचिदस्तीति । सर्वत्र 'नपुंसके भावे क्तः | ३|३|११४॥५ इति सूत्रेण भावे निष्ठा ॥ १०६ ।। ततो बलिंदमप्रख्यं कपिविश्वम्भराऽधिपम् । सुग्रीवः प्राब्रवीद्रामं वालिनो युधिं विक्रमम् ॥ १०७ ।। तत इत्यादि -- ततः कार्यालोचनानन्तरं सुग्रीवः प्रात्रवीत् | लडि 'ब्रुक ईट् |७|३|९३।१इतीट् किमुक्तवान्-त्रालिनो युधि विक्रमं शौर्यमिति प्रधानं कर्म राममित्यकथितम् । कीदृशं रामम् बलिन्दमप्रख्यं विष्णुतुल्यम् । बलिं दमयतीति 'संज्ञायां भृतृवृजिधारिसाहतपिदमः | ३|२|४६ |' इति खच् | अमन्तस्य मित्व- ह्रस्वत्वे । तथा विश्वं बिभर्तीति विश्वम्भरा तस्या अधिपम अधिपातीत्यधिप- स्तैम् 'आतश्चोपसर्गे कः | ३ | १ | १३६।' इति कः ।। १०७ ।। १ वसुन्धराऽधिपं राजानमित्यर्थः । ११
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१९९
दिखावट