( १६० ) भट्टिकाव्ये जयमङ्गलासमेत प्रियंवदोऽपि नैवाऽहं ब्रुवे मिथ्या परन्तप । सख्या तेन दशग्रीवं निहन्तासि द्विषन्तपम् ॥ १०१ ॥ प्रियवद इत्यादि - प्रियंवदतयो लोको 'मिथ्या वदति अहं प्रियंवदोऽपि नैव मिथ्या त्रुवे वदामि । पूववत् खच् | परन्तप शत्रूणासुपतापयितः । द्विप- त्परयोस्तपिः ।३।२।३९ |' इति खच् । तेन सुग्रीवण सख्या मित्रेण दशग्रीवं निहन्तासि हनिष्यास । हन्तेर्लुटि रूपम् । कीदृशं द्विषन्तपम् शत्रूणामुप तापयितारम् । पूर्ववत् खच् ॥ १०१ ॥ [ षष्ट:- वाचंयमोऽहममृते सत्यमेतद्रवीमि ते । एहि सर्वेसह मित्रं सुग्रीवं कुरु वानरम् ॥ १०२ ॥ वाचयम इत्यादि--वाचंयमै : मनिरित्यर्थः । 'वाचंयमपुरन्दरौ च ||६||३|६९|| इति मुमागमो निपात्यते । तस्मात् सत्यमेतत् पूर्वोक्तम् । ब्रवीमि ते तुभ्यम् । तार्थ्ये चतुर्थी । यत एवं तस्मादेहि आगच्छ । सुग्रीवं वानरं मित्रं कुरु । कीदृशं सर्वसह सर्व सहत इति 'पूः सर्वयोर्दारिसहोः |३|२|४१|| इति खच् ॥१०२॥ सर्वङ्कषयशःशाख रामकल्पतरुं कपिः । आदायाऽअङ्क प्रायान्मलयं फलशालिनम् ॥ १०३ ॥ सर्वङ्कषेत्यादि-- ई---- रामः कल्पतरुरिव यस्तमादाय गृहीत्वा कपिः प्रायात् गतः । कीदृशं रामम् सर्वङ्कषयशः शाखं सर्व कषन्ति व्याप्नुवन्ति यानि यशांसि | 'सर्वकूलाभ्रकरीरेषु कषः ।३।२।४२।' इति खचू । तान्येव शाखा यस्य । फलशालिनमभिमतफलसम्पादनात् । अभ्रङ्कमुस्तै मलयम् । पूर्व वत् खच ॥ १०३ ।। मेघङ्करमिवायान्तमृतुं रामं क्लमान्वितः । दृष्ट्वा मेने न सुग्रीवो वालिभानुं भयंकरम् ॥ १०४ ॥ मेघङ्करमित्यादि ---राममायान्तं दृष्ट्वा । सुग्रीवो वालिनं भानुमिव भयं- करं भीतिजनकं न मेने न बुद्धवान् । मेघर्तिभयेषु कृञ् : ३।११४८ | इति खच् १ मधुरभाषण कर्तृतयेत्यर्थ: । 'सत्यं ब्रूयात् प्रियं ब्रूयान्न नूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥' इति मनुवचनंस्मरतेदमुक्तम् । २ 'तपस्वी तापस. पारिकाङ्क्षी वाचयमो मुनिः ।" इत्यमरः | ३ सर्वसहम् अतिषीरमित्यर्थः अविचलस्वभावमिति भावः । ४ लाक्षणिकोयमर्थः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१९८
दिखावट