पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (१५९) खा मुम् च । ततो नञ्समासः | ईशान मशिनशीलं स्वामिनमित्यर्थः। 'ताच्छील्य- वयोवचनशक्तिषु चानश |३|२|१२९|| इति चानशू । सर्वभोगीणं सर्वसत्त्व- भोगाय हितम् । 'आत्मन्विश्वाज नभोगोत्तरपदात्खः |५|१|९ ।। इति खः । भोग- शब्दोऽत्र शरीरवाची । 'अट्कुप्वाङ्नुम्व्यवायेऽपि । ८ । ४ । २' इति 'गत्वम् ॥ ९७ ॥ यदि पितुरादेशादागतौ किमत्रामनेनान्वेषयथ इत्याह- छलेन दयिताऽरण्याद्रक्षसाऽरुन्तुदेन नः । असूर्यपश्यया मूर्त्या हृता तां मृगयावहे ॥ ९८ ॥ छलेनेत्यादि---नोऽस्माकं दयिता अरण्याक्षसा हृता । कीदृशेन अरु - न्तुदेन मर्मस्पृशा । 'विध्वरुषोस्तुदः | ३|२|३५|' इति खशु । ततो मुम् । असूर्यम्पश्यया आदित्यगोप्यया मूर्त्या शरीरेणोपलक्षिता । 'असूर्यललाटयो- ईशितपोः |३|२||३६।' इति खश् । तां हृतां मृगयावहे गवेषयावः । 'मृग अन्वेषणे' स्वार्थिकण्यन्तः । युया: पौरुषान्वितत्वात् कथं हृतेत्याह-छलेन छद्मना ।। ९८ ॥ त्वं पुनः कस्य वेत्यत आह --- प्रत्यूचे मारुती राममस्ति वालीति वानरः । शमयेदपि संग्रामे यो ललाटंतपं रविम् ॥ ९९ ॥ प्रत्यूच इत्यादि ---रामं मारुतिः प्रत्यूचे प्रत्युक्तवान् । अस्ति वालीति नाम्ना कपीश्वरः यः संग्रामे युद्धे ललाटन्तपं सर्वेषामुपरि वर्तमानं रविं पूर्ववत् ‘असूर्यललाटयोडींशतपोः | ३|२|३६ | इति खश् । शमयेत् पराजयेदिति सम्भावने लिङ् | वालिशब्दो नान्तः, इदन्तश्च । तथा च 'वाली वालिञ्च कथ्यते' इति शब्दभेदः ॥ ९९ ॥ उग्रम्पश्येन सुग्रीवस्तेन भ्राता निराकृतः । तस्य मित्रीयतो दूतः सम्प्राप्तोऽस्मि वशंवदः ॥१०० ॥ उग्रम्पश्येनेत्यादि ---तेन भ्राता उग्रम्पश्येन पापं विजानता । ‘उग्रम्पश्य- रम्मदपाणिन्धमा |३|२|३७ | इति निपातितम् । यश्च सुमीवो निराकृतोऽभिभू- तस्तस्य हि दूतः प्राप्तोऽस्मि | वशंवदः | वशमनुकूलं वदतीति वशंवदः। ‘प्रिय- वशे वदः खच् ||३|२||३८|' कीदृशस्य मित्रीयता मित्रमिच्छतः । 'सुप आत्मनः क्यच् ||३||१|८|' इति क्यच् ॥ १०१ ॥ किं तेन सख्योत चेदाह - -