( १५८) भट्टिकाव्ये जयमङ्गलासमेते- [ पष्टः- ३|२| ३ |' इति खर्ा । 'खित्यनव्ययस्य । ६ । ६६ ।। इति ह्रस्वः । विषमोप- लान् उन्नतपाषाणयुक्तान् । स्तनन्धयसमत्विषौ बालवत्सुकुमारौ। सामर्थ्य पुन- युवयोरचिन्त्यम् । स्तनं धयतः पिबतः । 'नासिकास्तनयोधर्माधेटोः ।३।२।२९। इति खश्। ‘अरुद्वेिषदजन्तस्य मुम् । ६ । ३ । ६७ ।। इति मुम् ।। ९४ ॥ उत्तीर्णो वा कथं भीमाः सरितः कूलमुहाः । आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः ॥ ९५ ॥ उत्तीर्णांवित्यादि--कथं वा केनोपायेन युवां सरितो नदीरुत्तीणों । भीमा- त्रासकरीः । यतः कूलमुद्वहा : कूलमापूर्य वहन्त्य: । 'उदि कूले रुजिवहोः |३|२| ३१ ।' इति खश् । गजैः कूलमुद्वजैः कूलं भिन्दाद्भिः कथं नासादितौ न व्यापादितौ इति ब्रूतं कथयतम् ॥ ९५ ॥ रामोऽवोचद्धनूमन्तमावामभ्रंलिहं गिरिम् । ऐव विद्वन् पितुः कामात्पान्तावल्पंपचान्मुनीन् ॥ ९६ ।। राम इत्यादि – हनुर्वदनैकदेशः स निन्दितोऽस्यास्तीति निन्दायां मतुप् 1 “अन्येषामपि दृश्यते ||६|३|१३७ इति: । 'हनूमान् हनुमानपि' इति विश्वदर्शनात् । तस्य किल जातमात्रस्य आदित्यरथं गृह्णतो हनुद्वयं भग्न- मिति श्रूयते । तं रामोऽवोचत् उक्तवान् । तत् किमित्याह - हे विद्वन् यदमुं गिरिमादामैव आगतौ तत् पितुः कामादभिप्रायात् । आङ्पूर्वादिणो लाङ रूपम् । अभ्रंलिहमुच्चैस्तरम् । अभ्रं लेडीति, 'वहाभ्रे लिहः | ३|२|३२|| इति । कि कुर्वान् रक्षन्तौ । मुनीन् अल्पम्पचान् अल्पसन्तुष्टान् | अल्पे पचन्तीति 'मितनखे च |३|२||३४|| इति मितेत्यर्थग्रहणात् खन् । चकारस्यानुक्तसमुच्चयार्धत्वाद्वा ॥ ८६ ॥ कः पुनः पिता यदादेशादागतावित्यत आह -- अमितंपचमीशानं सर्वभोगिणमुत्तमम् । आवयोः पितरं विद्धि ख्यातं दशरथं भुवि ॥ ९७ ॥ अमितम्पचमित्यादि — आवयोः पितरं दशरथनामानं भुवि ख्यातं विद्धि जानीहि । 'हुझलभ्यो हेधिः |६|४|१२०१ | अमितम्पचं महासत्रिणं पूर्ववत् १ स्तनन्धयाभ्यां बालाभ्यां समा स्विट् ययोस्तौ । २ आदित्यस्य सूर्यस्य स्थमित्यथः । 'सूरसूर्यार्यमादित्य द्वादशत्मदिवाकराः ।' इत्यमरः । ३ 'इच्छामनो- भवौ कामौ' इत्यमरः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१९६
दिखावट