पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः 1 प्रकीर्णकाण्डम् | बलिनावसुमद्रीन्द्रं युवां स्तम्बेरमाविव । आचक्षाथामियः कस्माच्छङ्करेणापि दुर्गमम् ॥ ९२ ॥ ( १५७) — बलिनावित्यादि — युवाम् अमुम् अद्रीन्द्रम् | कस्मात् कारणादिथः प्राप्तौ । 'इण् गतौ' इत्यस्मात् 'वर्तमानसामीप्ये वर्तमानवद्वा । ३ । ३ । १३१ ।' इति थास रूपम् । भूते लट् थस् । एतदाचक्षाथां कथयतम् | लोट रूपम् । बलिनौ बलवन्तौ । यतः शङ्करेणापि महादेवेनापि दुर्गमम् दुःखेन गम्यते । काविव स्तम्बेरमोविव यथा मत्ताद्वपौ प्राप्नुतस्तद्वत् । स्तम्बकर्णयो रमिजपोः । ३ । २ । १३ । ' इत्यच् कर्तरि हस्तिन्यभिधेये हस्ति- सूचकयो: ' इति वचनात् । शंकर इति 'शमि धातो: संज्ञायाम् | ३ | २ | १४ ।' इत्यच ॥ ९२ ॥ 6 6 दुर्गमत्वदर्शनायाह-- व्याप्तं गुहाशयैः क्रूरैः ऋव्याद्भिः सनिशाचरैः । तुङ्गशैलतरुच्छन्नं मानुषाणामगोचरम् ॥९३ ॥ व्याप्तमित्यादि – कीदृशमद्रीन्द्रं ऋव्यमेपकमांस भक्षयद्भिः । ऋयोपपदा- ददेः ‘क्रव्ये च । ३ । २ । ६९ ।। इति । क्रूरैः हिंसकैः सिंहादिभिः सनिशाचरै: राक्षससहितैर्व्याप्तम् । गुहाशयैः गुहायां शेरते इति शीङ: 'आधि- करणे शेतेः । ३ । २ । १५ ।' इत्यच | तुङ्गाः उच्चा: शैला: शिलायां भवा ये तरवस्तैश्छन्नं व्याप्तम् । अतः एव मानुषाणामगोचरम् अगम्यम् । ' गोचर- सञ्चरवहव्रजव्यजापणनिगमश्च | ३ | ३ | ११९ ।' इति निपातितः ॥ ९३ ॥ इति प्रागुक्तष्टाधिकारः । इत ऊर्ध्वं खशादिप्रत्ययानाह--- सत्त्वमेजयसिंहाढ्यान् स्तनंधयसमत्विषौ । कथं नाडिन्धमान्मार्गानागतौ विषमोपलान् ॥ ९४ ॥ सत्त्वमित्यादि – युवामिमान् मार्गान् कथमागतौ । सत्त्वमेजयसिंहाढथान् सत्त्वमेजयन्ति ये सिंहाः, 'एजे: खश् | ३ | २ | २८ ।' 'अरुद्विषदजन्तस्य मुम् । ६। ३ । ६७ ।’ इति मुम् | तैराढ्यान् व्याप्तान् । सिंहग्रहणं तद्वद्धिंस्रोप- लक्षणार्थम् | हिनस्तीति सिंह: । पृषोदरादित्वाद्वर्णविपर्ययः । नाडिन्धमा- निति । उच्चनीचाधिरोहणात् हुर्मुहुनिःश्वासैर्नाडिं धमन्तीति 'नाडीमुष्टयोश्च | १ 'इम: स्तम्बेरम: पद्मी' इत्यमरः | २ 'पिशितं तरसं मांस पललं क्रव्यमन्त्रि व्याम् ।' इत्यमरः ।