पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५६ ) भट्टिकाव्ये जयमङ्गलासमेते- [ षष्टु:- इतिकर्मधारयः । पुनः कीदृशं शोकापनुढं शोकमपनुदति | 'तुन्दशोकयो: परिमृजापनुदोः । ३ । २ । ५ ।। इति कः | अव्य सुचित्तमित्यर्थः ॥ ८८ ।। विश्वासप्रदवेषोऽसौ पचिप्रज्ञः समाहितः । चित्तसंख्यो जिगीषूणामुत्पपात नभस्तलम् ॥ ८९ ॥ विश्वासेत्यादि-असौ मारुतिर्नभस्तलमुत्पपात । विश्वासं प्रददातीति विश्वासप्रदः । 'प्रे दाज्ञः । ३ । २ । ६ ।। इति कः । विश्वासप्रदो वेषो यस्य भिक्षुवेष इत्यर्थः । वेष्यते आत्माऽनेनेति, 'अकर्तरि च कारके संज्ञायाम् |३|३| १९|' इति चञ् । 'विल व्याप्त' इत्यस्य रूपम् । पन्थानं प्रजानातीति पथिप्रज्ञः। समाहितः अभ्रान्तचित्त: 'इदमादिष्टम् इदं च मया तत्र वक्तव्यम्' इति । जिगीषूणां जेतुमिच्छताम् । चित्तसंख्यः चित्तं संख्याति परिच्छिनत्तीति, 'समि ख्यः । ३ । २ । ७ ।' इति कः ।। ८९ ॥ सुरापरिव चूर्णद्भिः शाखिभिः पवनाऽऽहतैः । ऋष्यमूकमगाद् भृङ्गैः प्रगीत सामगैरिव ॥ ९० ।। सुरापैरित्यादि-मारुतिर्ऋष्यमूकमगात् । शाखिभिरुपलक्षितम् । चूर्णद्भिः कम्पमानैः : पवनाहतत्वात् । अत एव सुरापैरिव मत्तैरिव । 'गापोष्टक |३|२| ८|' इत्यत्र 'पिबते: सुराशीध्वोरिति वाच्यम्' इति टक् । प्रगीतं प्रगीयतेऽत्रेति अधिकरणे क्तः। कैरिव भृङ्गः सामगैरिव सामवेदपाठकैरिव | साम गायन्तीति ‘गापोष्टक् । ३ । २ । ८ ।' इति टक् ॥ ९० ॥ तं मनोहरमागत्य गिरिं वर्महरौ कपिः । वीरौ सुखाऽऽहरोऽवोचद्भिक्षुर्भिक्षार्हविग्रहः ॥ ९१ ।। समित्यादि- तमृप्यमूकं गिरिमागय कपिवरौ रामलक्ष्मणौ अवो- चत् उक्तवान् । कीदृशं मनोहरं रम्यत्वात् । मनो हरतीति, हरतेरनुद्यमनेऽच् ३ | २ | ९|' इत्यच् । वर्महरौ कवचं हतु क्षमौ । संभाव्यमानवयसावित्यर्थः । वदसि च । ३ । २ । १० । इत्यच् | सुखाहरः सुखाहरणशील:, 'आङि ताच्छील्ये । ३ ।२।११।' इत्यच् । भिक्षुः परित्राड्वेषः न कपिरूपः यतो विश्वा- संप्रदद्वेष इत्युक्तम् । भिक्षाविमहः भिक्षायोग्यशरीर: कृशत्वादित्यर्थः । भिक्षामर्हतीति, ‘अर्हः । ३ | २ | १२ |' इत्यच् ॥ ९१ ।। १ 'तनुत्रं वर्म दंशनम्' इत्यमरः | २ अत्र पचादित्वादच् ।