सर्गः ] प्रकीर्णकाण्डम् | ( १५५) तावित्यादि-तौ रामलक्ष्मणौ वालिनः प्रणिधी चरौ मत्वा सुग्रीवः कपिरचिन्तयत् चिन्तितवान् । प्रणिधीयते नियुज्यते कार्येषु प्रणिधिः । ‘उपसर्गे वोः किः ।३।३।९२ |' इति किः । बन्धुना भ्रात्रा विगृहीतो विरोधितः सन् कथं जीवको भूयासमिति | आशंसायां लिङ् । जीवे: 'आशिषि च |३|१२|१५० |' इति वुन् ॥ ८६ ॥ इति निरुपपदकृदधिकारः । इतः प्रभृति 'तत्रोपपदं सप्तमीस्थम् |३|१|९२ |' इति अस्योपस्थापनेन कृतो दर्शयन्नाह - स शत्रुलाव मन्वानो राघवौ मलयं गिरिम् । जगाम सपरीवारो व्योममायामिवोत्थितम् ॥ ८७ ॥ - स इत्यादि - स सुग्रीवः सपरीवारः सपरिकरः । 'उपसर्गस्य घञ्यमनुष्ये बहुलम् | ६||३|१२२|' इति दीर्घः । कपीनाममनुष्यत्वात् । मलयं गिरि जगाम | राघवौ शत्रुलावौ शत्रून् लुनीत इति 'कर्मण्यण् |३|२|१|' शत्रूणामु- न्मूलकाविति मन्वानोऽवगच्छन् । 'मनु अवबोधने' इत्यस्मादात्मनेपदिनः 'तनादिकृञ्भ्य उः | ३|१२|७९ | व्योममायमिवोत्थितं व्योम आकाशं मिमीत इति 'ह्रावामश्च |३|२|२१|| इत्यण् | नभः परिच्छेत्तमिवोत्थितं कियत्प्रमाणमस्येति ॥ ८७ ॥ शर्मदं मारुतिं दूतं विषमस्थः कपिद्विषम् । शोकाऽपनुमव्यग्र प्रायुङ्क कपिकुञ्जरः ॥ ८८ || शर्मदमित्यादि--कपिकुञ्जर : सुग्रीवः हनूमन्तं दूतं प्रायुक्त प्रस्थापितवान् । 'वृन्दारकनागकुञ्जरैः पूज्यमानम् ||२|१||६२ | इति कर्मधारयः समासः | वृत्तान्तं ज्ञातुमित्यर्थात् । प्रायुङ्क्त इति 'प्रोपाभ्यां युजेर यज्ञपात्रेषु |१|३|६४ | इत्यात्मनेपदम् । 'रुधादिभ्यः श्नम् |३|१२|७८ | कपिकुञ्जरः । किम्भूतः विषमे दुर्गमपर्वते तिष्ठतीति विषमस्थ: । 'सुपथ |३||२|४|| इति कः । मारुतिं मारुतनन्दनं हनुमन्तमित्यर्थः । कीदृशं शर्म कल्याणं ददातीति शर्मदः ।‘आतो- ऽनुपसर्गे कः।३।२।३।’इति कः । श्रेष्ठत्वमाह कपिद्विप कपि श्रेष्ठम् । द्वाभ्यांपिवतीति द्विपः कपिरयं द्विप इव । 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे || २|१॥५६॥ १ 'यथाऽर्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः । चारश्च तमू पुरुषः' इत्यमरः ।
- 'शर्मशातसुखानि च, इत्यमरः | ३ द्विपो हस्ती | 'द्विरदोऽनेकपो द्विपः |' इत्यमरः ।