पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५४ ) भट्टिकाव्ये जयमङ्गलासमेते- [ षष्ट:- } णप्रत्ययः, ज्योतिषि वाच्येऽच् प्रत्ययः । ग्राहेणेवात्तमर्णवे । अर्णः पानीयं यत्रास्तीति । ‘केशाद्वोऽन्यतरस्याम् | ५|२|१०९ | इत्यत्र 'अर्णसो लोपश्च' इति भूम्नि नित्ययोगेऽतिशायने वा वः सलोपश्च । अर्णवे समुद्रे वर्तमाने ग्राहेन नक्रादिना आत्तं गृहीतम् । आङ्पूर्वस्य दाञः 'अच उपसर्गात्तः । ७॥४॥४७॥ इति तादेशः ॥ ८३ ॥ वाताऽऽहतिचलच्छाखा नर्तका इव शाखिनः । दुःसहा ही परिक्षिप्ताः कणद्भिरलिगाथकैः ॥ ८४ ॥ वातेत्यादि --- ही कष्टम् एते शाखिनः नर्तका इव । 'शिल्पिनि न् |३|१|१४५|' दुःसहा दुःखेन सह्यन्त इति 'ईषहु: सुषु कृच्छ्राकृच्छ्रार्थेषु खल. ।३।३।१२६।' इति खळु । नर्तकैः साधर्म्यमाह । वाताहतिचलच्छाखा वाताहतिभिः चलन्त्यः शाखा बाहुलता इव येषां ते । अलैयो भ्रमराः क्वणन्तः गाथका गायना इव | 'गस्थकन् |३|१२|१४६ || इति कन् । परिक्षिप्ता परिवेष्टिता इति ॥ ८४ ॥ तैश्च एकहायनसारङ्गगती रघुकुलोत्तमा । लवकौ शत्रुशक्तीनामृष्यमूकमगच्छताम् ॥ ८५ ॥ एक हायनत्यादि-रघुकुलोत्तमौ रामलक्ष्मणौ । ऋष्यमूकमगच्छतां गत- वन्तौ । लाङ रूपम् । हायनः संवत्सरः स एको यस्य सारङ्गस्य मृगस्य तस्यैव गतिर्ययोः शीघ्रगामित्वात् । 'हश्च व्रीहिकालयोः |३|१|१४८| इति हातोट् । आतो युक् । तौ शत्रुशक्तीनां लवको अपनेतारौ । 'सृल्वः समभिरे|३||१४९ | इति वुन् । तत्र समभिहारग्रहणं साधुका -- रित्वोपलक्षणार्थम् ॥ ८५ ॥ तौ वालिप्रणिधी मत्वा सुग्रीवो ऽचिन्तयत्कपिः । बन्धुना विगृहीतोऽहं भयासं जीवकः कथम् ॥ ८६ ।। १ 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।' इति मत्वर्थीयः २ 'ही विस्मयें' प्रमोदे च' इति त्रिकाण्डशेपव्याख्यायां चकारेण खेदे च इत्युतत्वात्, 'ही कान्तार- गमनम्' इत्युदाहृतत्वाच्च । ३ 'द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः । ४ 'हायनोऽस्त्री शरत् समाः 'इत्यमरः । ५ 'चातके हरिणे पुंसि सारङ्गे शबले त्रिषु ।" इत्यमरः [1 इत्यमरः ।