पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः] प्रकीर्णकाण्डम् । ( १५३ ) स्रवन्तीत्या स्रावाः क्षरन्त: । 'श्याद्वयधास्रुसंरुवतीणवसाव हलिहश्लिषश्व । ३ । १ । १४१ ।' इति णः कर्तरि । तयोर्विशेषणसमासे राजद्न्तादित्वा- त्परनिपातः । ते कुर्वन्ति चित्तसंस्रावम् । संस्रवतीति संसावः । पूर्ववत् णः । चित्तं संस्रावं चलत्कुर्वन्ति इत्यर्थः । पूर्ववत् समासपरनिपातौ । कीदृशाश्चलतूपर्णाप्रसंभृताः संगलिताः । अत एव चारुमुक्ताफलत्विषे: दर्शनी- यमुक्ताफलानुकारिणः । सीताहारस्थमक्ताफलानि स्मारयन्तीत्यर्थः ॥ ८० ॥ अवसायो भविष्यामि दुःखस्याऽस्य कदाऽन्वहम् । न जीवस्यावहारो मां करोति सुखिनं यमः ॥ ८१ ॥ अवसाय इत्यादि - कदा नु कस्मिन्ननु काले अहं दुःखस्यानुभूयमानस्य सन्ता- पस्य अवसायोऽन्तकरो भविष्यामि येन जीवस्यावहारोऽवहर्ता यमो मां सुखिनं न करोति मारयतीत्यर्थ: । अवस्यति इति अवसाय: । षो ऽन्तकर्मणि | अवहरतीत्यवहारः। 'श्याद्वयधास्नुसंवतीणवसावलिहलिषश्वसश्च |३| १ | १४२ ।' इति सर्वत्र णः | युक् ॥ ८१ ॥ दह्ये ऽहं मधुनो हैदोवैरुग्रैर्यथा गिरिः | नायः कोऽत्र स येन स्यां बताऽहं विगतज्वरः ॥ ८२ || दह्य इत्यादि ---मधुनो लेहभृङ्गैः अहं दो । 'श्याद्वयधास्रुसंरुवतीण वसा- बलिहलिश्वसच ३११११४१ |' इति णः | दावैर्वनाग्निभिरुयैः प्रचण्डैर्यथा गिरिर्दह्यते तद्वत् । अत्र को नायः नयतीति नाय : उपाय : ईप्सितप्रापकः । उभयत्र 'दुन्योरनुपसर्गे | ३ | १ | १९४२ || इति णः । येन नायेन विगतज्वरः विगतपीडः स्यामिति । आशंसायां लिङ् | बत खेदे ।। ८२ ।। समाविष्टं ग्रहेणेव ग्राहेणेवाऽऽत्तमर्णवे । दृष्ट्वा गृहान् स्मरस्येव वनान्तान् मम मानसम् ॥ ८३ ॥ समाविष्टमित्यादि-~-बनान्तान् वनपर्यन्तान् । स्मरस्य कामस्य गृहमिव । उन्मादकत्वात् । ‘गेहे कः | ३||१४|इतकः । अर्धर्चादिपाठात् पुँल्लिङ्गता | दृष्ट्वा मम स्थितस्येत्यर्थात् योग्यम् । अन्यथा कथं समानकर्तृकत्वम् । मानसं चेत: ग्रहेणाङ्गारकादिना | समाविष्टमित्र निगृहीतमिव । 'विभाषा ग्रहः | ३|१||१४३|' इति णप्रत्ययः । अचोऽपवादः । तत्र व्यवस्थितविभाषा- विज्ञानात् जलचरे ग्राह: ज्योतिषि ग्रह इति जलचरे वाच्येऽचोपवादो १ चारूणि सुन्दराणि यानि मुक्ताफलानि तेषां विडिव त्विट् येषां ते ।