सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १५२ ) भट्टिकाव्ये जयमङ्गलासमेते- धारयैः कुसुमोमणां पारयैर्बाधितुं जनान् । शाखिभि हता भूयो हृदयानामुदेजयैः ॥ ७८ ॥ धारयैरित्यादि---हा कष्टं शाखिभिर्दुमभूयोऽत्यर्थं वयं हताः । कीदृशैः हृदयानामुदेजयैः चेतसामुत्कम्पकैः । धारयैः कुसुमोमणां कुसुमनिच- यान् धारयद्भिः । जनान् मद्विधान् वाधितुं पीडयितुं पारयद्भिः समर्थैः । 'वृञ् धारणे' 'पू पालनपूरणयो: ' 'एज कम्पने च ।' एभ्यो णिजन्तेभ्यः अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च । ३ । १ । १३८ ।' [ षष्टः- इति शः ॥ ७८ ॥ ददैर्दुःखस्य माहग्भ्यो धायैरामोदमुत्तमम् । लिम्पैौरव तनोर्वातैश्चेतयः स्याज्ज्वलो न कः ॥ ७९ ॥ दरित्यादि——वातैर्दुःखस्य ददैः दुःखं ददद्भिः | केभ्यो मादृग्भ्यः | अस्मादृशेभ्यो विरहिभ्यः । 'त्यदादिषु दृशो ऽनालोचने कञ्च | ३ | २ | ६० । इति क्विन् । 'दृग्शवतुषु । ६ । ३ । ८९ ।' इत्याकारः । धायैरामोदमुत्तमम् आमोदं प्रियासङ्गमेन हर्ष यावद्विरहिभ्यो दत्तस्य दुःखस्य धायैः पोषकै- रित्यर्थः । उत्तममिति क्रियाविशेषणम् | उत्तममामोदं धायैः कुसुमानां परिमलं धारयद्भिरिति व्याख्याने अनित्यत्वात् कृत्प्रयोगे कर्मषष्ठ्यभावः । लिम्पैरिव तनोः शरीर लिम्पद्भिरिव । वातैर्हेतुभिः । को नाम विरहाभिना यश्चेतयमानः ज्वलन्नग्निरिव न स्यात् । किन्तु भवेदेवेति भावः । दुदैवी- यैरिति 'श्यायधास्त्रसंस्वतीणवसावहलिहश्लिषश्वसश्च | ३ | १ | १४१ ।। इत्याकारान्तलक्षणे शे प्राप्ते ' ददातिदधात्योर्विभाषा । ३ । १ । १३९ ।। इति शाणौ भवतः । श आतो लोपः । णे चातो युक् । लिम्पश्चेतय इति 'अनुपसर्गाडिम्पविन्दधारिपारिवेद्युजिचेतिसातिसाहिभ्यश्च | ३ | १ | १३८ । इति शः, ज्वल इति ' ज्वलितिकसन्तेभ्यो णः । ३ । १ । १४० । इति अस्य विकल्पनात्पचाद्यच् ॥ ७९ ॥ अवश्यायकणास्त्रावाश्चारुमुक्ताफलत्विषः । कुर्वन्ति चित्तसंस्रावं चलत्पर्णाग्रसम्भृताः ॥ ८० ॥ अवश्यायेत्यादि----अवश्यायत इत्यवश्यायः तस्य कणा बिन्दवः । आ- १ 'स्फारं भूयश्व भूरि च' इत्यमरः । २' अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् । इत्यमरः ।