पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (१५१) 'रथवयोश्च । ६।३।१०२ ।। इति कोः कदादेशः । दयितायां सत्यां मधुरप्रलापमासीदित्यर्थः ॥ ७५ ।। पक्षिभिवितृदैर्यूना शाखिभिः कुसुमोत्किरैः । अज्ञो यो यस्य वा नास्ति प्रियः प्रग्लो भवेन्न सः ॥ १६ ॥ पक्षिभिरित्यादि--‘उत्तृदिर् हिंसानादरयोः ।' इत्यस्मात् ‘इगुपधज्ञाप्रीकिरः कः ३ । १ । १३५ ।' इतीगुपधलक्षणः कः | यूनां वितृदै: हिंसकैः पक्षिभिः शाखिभिवृक्षैश्च । 'व्रीह्यादिभ्यश्च |५|२|११६ इतीनि: । कुसुमोत्किरैः । उत्किरन्ति उत्क्षिपन्तीत्युत्किराः । पूर्ववत्कः । कुसुमानामुत्किराः । कृद्योगलक्षणां षष्ठीं विधायें समासः । तैर्हेतुभूतैः करणभूतैर्वा । स प्रग्लो न भवेत् । प्रकर्षेण ग्लायते प्रग्ल: । 'आतचोपसर्गे । ३ । १ । १३६ ।' इति कः योऽज्ञः गुणदोषानभिज्ञः । जानातीति ज्ञः पूर्ववत्कः | यस्य वा प्रियो जनो नास्ति तस्य प्रयोजनाभावः सर्वत्र विवेकित्वात् । प्रीणातीति प्रियः पूर्ववत् कः ॥ ७६ ॥ 1 ध्वनीनामुद्धमैरेभिर्मधूनामुद्धयैभृशम् । आजि: पुष्पगन्धानां पतङ्ग्लपिता वयम् ॥ ७७ ॥ - ध्वनीना मित्यादि — पतङ्गै भ्रमरैग्लपिताः पीडिताः वयम् | 'ग्लास्नाव- नुवमां च ' इति मित्त्वाद्धस्यः । 'पतेरङ्गच् पक्षिणि' इत्यौणादिकोऽङ्गच् । कीदृशैः ध्वनीनामुद्धमैः ध्वनीन् कुर्वद्भिः । 'पात्राध्मास्थाम्नादाणदृश्यर्ति- सर्तिसदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशयिसीदाः । ७ । ३ । ७८ ।’ इति धमादेशः । मधूनामुद्धयैः मधूनि पुनः पुनः पिवाः । 'धेट् पाने' इत्य- स्यायादेशः । आजित्रैः पुष्पगन्धानां पुष्पगन्धान् जिब्रद्भिः । पूर्ववजिब्रा- देर्श: । सर्वत्र 'पात्राधमाधेशः शः | ३ | १ | १३७ ।' इति शः । कृद्यो- गलक्षणों पष्ठी ॥ ७७ ॥ १ 'वृक्षो महीरुहः शाखी' इत्यमरः । २ विधायैवेति वाच्यम्, अन्यथा 'कर्मण्यण ३ । २ । १ ।' इत्यण् प्रसज्येत । ३ अत्र सर्वत्र पूर्ववदिति ‘इगुपधज्ञाप्रीकिरः कः ३ | १ | १३५ । इति शास्त्रस्मारकम् । ४ पाघ्राध्मा- स्थाम्ना – ७ । ३ । ७८ ' इत्यादिनेनैवेति भावः । ५ ' कृत्यानां कर्तरि वा २ | ३ ७१' इति सूत्रेणेति भावः ।