पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयनङ्गलासमेते - ( १६८ ) राममुच्चैरुपालब्ध शूरमानी कपिप्रभुः । गणवेदनया ग्लायन्साधुमन्य मसाधुवत् ॥ १२५ ।। [ षष्ठः- राममित्यादि-कपित्रभुर्वाली राममुचमैहता शब्देनोपालब्ध उपालब्ध- चान् । लभिरात्मनेपद्यनिट् | तस्य लुङि 'झलो झालि |८|२||२६|' इति 'सिचो. लोपः । 'झषस्तथोर्थोऽधः । ८।२ । ४० । । झलां जश झशि ८८४१५३|' शूरमानी शूरमात्मानं मन्यमानः 'आत्ममाने खश्च । ३ । २ । ८३ ।' इति चकाराणिनिः । व्रणवेदनया ग्लायन् । ग्लानिमुपगच्छन् । •साधुम्मन्यं साधुमात्मानं मन्यमानं रामम् । तेनैव खश । तस्मिन् सार्व- धातुके परतो दिवादित्वात् श्यन् । पूर्वपदस्य मुम् । असाधुवसाधुमित्र । असाधुना तुल्यं वर्तते इति वतिः ॥ १२५ ॥ मृषाऽसि त्वं हविर्याजी राघव ! च्छद्मतापसः । अन्यव्यासक्तवातित्वाद्ब्रह्मनां पापसम्मितः ॥ १२६ ॥ मृषेत्यादि ---- हे राघव त्वं छद्मना तापसः । सः त्वं मृषैव निथ्य व योजी हविषा करणेनेष्टवानसि न परलोकप्राप्तस्ये इत्यभिप्राय: । 'करणे यजः । ३ । २ । ८५ ।' इति भूते णिनिः । अस्मात्सूत्रादारभ्य 'भूते' इत्य- धिकारात् । यतो ब्रह्मनां पापसंमितः ब्रह्म हन्तवन्त इति । 'ब्रह्मभ्रूण वृत्रेषु क्विप् । २ । ३ ।८७ ।' इति क्विन् । तेषां पापेन तुल्यः । कुतः अन्यव्यासक्त- 'यातित्वात् अन्यस्मिन् सुग्रीवे व्यासक्तं मां हतवान् ।' कर्मणि हनः । ३ । २ । ८६ ।' इति णिनिः । तत्र 'कुत्सितग्रहणं कर्तव्यम्' इत्युक्तम् । यदि सुप्रीवेण मम विरोधः किं तवायातमिति कुत्सितहननम् ।। १२६ ॥ तदेव दर्शयन्नाह - पापकृत्सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः । मामपापं दुराचार ! किं निहत्याऽभिधास्यसि ॥ १२७ ।। पापकृदित्यादि - हे दुराचार ! मामपापं निहत्य पापकृत् कृतकिल्बिष: राज्ञो दशरथस्य पुण्यकृतः सुतः सुकृतां मध्यं किमभिधास्यसि वक्ष्यसि । कि क्षेपे । न किंचिदभिधातव्यमस्तीति भावः । सर्वत्र 'सुकर्मपापमन्त्रपुण्येषु कृञः । ३ । २ । ८९ ।। इति किन् । १२७ ॥ अग्निचित्सोमसुद्राजा रथचक्रचिदाऽऽदिषु | अनलोविष्टवान्कस्मान्न त्वयाऽपेक्षितः पिता ॥ १२८ ॥