[ षष्ठः- १४८ ) भट्टिकाव्ये जयमङ्गलासमेते- अतः परं प्रकीर्णका:- वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्ननायकान् | अजैषी: कामसम्मोही संप्राप्या विनयेन वा ॥ ६८ ॥ वर्धत इत्यादि हे भरु कातरचिंत्ते तव तपो वर्धते तस्य च ये विना- स्तेषां ये नायकाः प्रणेतारस्तान् व्यजेष्टाः जितवत्यसि । लुङि 'विपराभ्यां जेः | १|३|१९|' इत्यात्मनेपदम् । काँमसंमोहौ कच्चिदजैषीः जितवत्यसि 'सिचि वृद्धिः परस्मैपदेषु |७|२|१|| विनयेन वा संप्राप्थाः संप्राप्तासि । कर्मणि लुङ् । 'झलो झलि |८|२|२६|| इति सिचो लोपः । अत्रानुक्तमफि कच्चिदिति पदमर्थायोज्यम् ॥ ६८ ।। •नायास्यसि तपस्यन्ती गुरुन् सम्यगत्तुषः । यमान्नोदविजिष्ठांस्त्वं निजाय तपसेऽतुपः ॥ ६९ ॥ नायस्यसीत्यादि- तपस्यन्ती तपश्चरन्ती कच्चिन्नायास्यास न विद्यसे तप- चरणशीलीभूतेत्यर्थः । 'कर्मणो रोमन्थतपोभ्यां वर्तिचरोः | ३|१|१५|| इति क्यङ् । 'तपसः परस्मैपदं च ।' इति वार्तिकेननात्मनेपदम् । गुरुन् आचार्यादीन् सम्यक् यथावदनुवृत्त्याऽतूतुषः तोषितवत्यसि । तुषेर्ण्यन्तस्य लुङि रूपम् । चडि णिलोपादि । यमान्मृत्योर्नोविजिष्ठाः नाभैपी: । पुण्यकृतां न मृत्युभयमित्यर्थः । ओविजेरात्मनेपदम् । लुङि सिच इट् । 'विज इट् | १ | २ | २ || इति सिचोङित्त्वे न गुणः । नि- जायात्मीयाय तपसे । अतुष: तुष्टवत्यसि । 'पुषादिद्युताधूलदितः परस्मै- पदेषु । ३ । १ । ५५ । इत्यङ् ॥ ६९ ॥ अथार्घ्यं मधुपर्कायद्यमुपनीयादरादसौ । अर्चयित्वा फलैरच्य सर्वत्राख्यदनामयम् ॥ ७० ॥ अर्ध्यमर्घार्थम् । अथेत्यादि-अथानन्तरमसौ शबरी 'पादाघाभ्यां च १५|३|२५|| इति यत् | मधुपर्काद्यम् । दधिमधुमिश्रमुदकं मधुपर्कः तदा- द्यं आदौ भवमाद्यं तदुपनीयादरात् फलैरर्चयित्वा । अच्यौँ अर्चनाह १ अत्र कातरचित्तत्वं पापादेवेति बोध्यम् । तथा च पापकर्म्मत उद्विज्य धर्म- कर्म्माण निरत इति भावः | २ कामक्रोधादयः इति भावः । ३ उक्तभेवार्थं स्पष्टयितुमे तत्प्रश्नारम्भः । ४ क्रोधं तु माकाङ्क्षरिति तात्पर्यम् । ५ 'गुरुर्गीपतिपित्रादौ इत्यमरायुक्तेरिति शेषः । ६ 'अर्हे कृत्यतृचश्च | २ | ३ | १६९' इति सूत्रेणेति शेषः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१८६
दिखावट