पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । ( १४९ ) यत् । रामलक्ष्मणौ सर्वत्रोक्तेषु अनामयं कल्याणं आख्यत्कथितवती ! ‘अत्यतिवक्तिख्यातिभ्योऽङ् |३|१|५२|' इत्यङ् ॥ ७० ॥ इति प्रकीर्णकाः । अथ कृदधिकारमाह- कृत्यानां कृदन्तर्भावेऽपि भावकर्मणोः कृत्या इति विशेषप्रतिपादनार्थः पृथगधिकारः | शेषास्तु कृतः कर्तरि भवन्ति तत्रो- पपदं सप्तमीस्थम् |३|११९२ | | इत्येतदधिकृतम् । यत्रैतन्नावतिष्ठते तान् कृतो दर्शयन्नाह - सख्यस्य तव सुग्रीवः कारकः कपिनन्दनः । द्रुतं द्रष्टासि मैथिल्याः सैवमुक्त्वा तिरोऽभवत् ॥ ७९ ॥ सपस्येत्यादि-सा शवरी तिरोऽभवदन्तर्भूता । एवमुक्त्वा । किं तदित्याह ---- तव सख्यस्य सखित्वस्य । 'सख्युर्यः | ५|१|१२६ | इति यः । कर्मणि षष्ठी । कारक: सुग्रीवः | ‘ण्वुलतृचौ |३|१||१३३|' इति बुट् । 'युवोरनाकौ |७|१||१||' इत्यादेशः । त्वया सह मैत्रीं करिष्य- ति । कपिनन्दनः कपीनां नन्दयिता । 'नन्दिग्रह |३|१|१३४ | इत्यादिना ल्युः । अनादेशस्तु 'युवोरनाकौ | ७ | १ | १ ।। इत्यनेनैव । कृयोगे षष्ठी । ततो द्रुतं द्रष्टासि मैथिल्या: । पूर्ववत्कर्तरि तृच् कर्मणि षष्टी । असीति वर्तमाने लट् ॥ ७१ ॥ नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम् । वनानि भेजतुर्वीरौ ततः पाम्पानि राघवौ ॥ ७२ ॥ नन्दनानीत्यादि- तत उक्ताद्नन्तरं वीरौ राघवौ रामलक्ष्मणौ वना- नि भेजतुः सेवितवन्तौ’' । एत्वाभ्यासलोपौ 'तृफलभजत्रपश्च | ६|४|११२ | १ इति । पाम्पानीनि । पम्पाया अदूरम् ।' 'अदूरभवश्च | ४ | २|७०।१ इत्यण् । मुनीन्द्राणां नन्दनानि प्रमोदकारीणि । वनौकसां वनेचराणाम् । 'उच समवाये ।' अस्मादौणादिकोऽसुम् | पृषोदरादित्वाद्वर्णविपर्ययः । वनमोको येषां तेषां रमणानि रतिजनकानि । 'नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः | ३ । १ । ।१३४।' इति ल्युः । कर्मणि षष्ठी ॥ १२१ ॥ १ 'अनामयं स्यादारोग्यम्' इत्यमरः । २ शीघ्रमित्यर्थः । 'लघुक्षिप्रमरं द्रुतम् ।' इत्यमरः | ३ अन्यानि वनानि गाहेते स्मेत्यर्थः । ४ ओक: स्थानमित्यर्थः । ‘ओकः सद्माश्रयश्चौकाः' इत्यमरः ।