पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकाण्डम् । (१४७ ) सर्मः ] काले आतिथ्योचिते काले कच्चित् अतिथिं संमन्यसे पूजयसि । अग्निमि- वानाय्यम् यथा अग्निम् आनाय्यम् । दक्षिणाग्निं मन्यसे तद्वत् । 'आनाथ्यो नित्ये ।३।१।१२७।' इति नयतेराङ्पूर्वस्य ण्यदायादेशौ निपात्येते ।। ६५ ।। न प्रणाय्यो जनः कच्चिन् निकाय्यं तेऽधितिष्ठति । देवकार्यविधाताय धर्मद्रोही महोदये ! ॥ ६६ ॥ न प्रणाय्य इत्यादि -- महानुदयः स्वर्गापवर्गाणां यस्याः सा तथा हे महो- दैये देवकार्यविघाताय देवकार्य विहनिष्यामीति | 'भाववचनाच्च |३|३|११| इति भविष्यति घञ् । 'तुमर्थाच्च भाववचनात् २१३|१५|' इति चतुर्थी । प्रणाय्योऽसंमतो जनः । 'प्रणाय्योऽसंमती |३|१|१२|' इति निपातितम् । कच्चित् निकाय्यं गृहं ते तव नाधितिष्ठति नाधिवसति | 'पाय्यसान्नाय्य निकाय्यधाय्या मानविर्निवाससामिधेषु ३ | १ | १२९|' इति निवासे चिनोते- र्निपूर्वात् ण्यदायादेशौ आदे: कुत्वं च । 'अधिशीङ्स्थाऽऽसां कर्म | १|४|४६।१ इति कर्मसंज्ञा | धर्मद्रोही धर्मद्रोहशीलः ॥ ६६ ॥ कुण्डपाय्यवतां कच्चिदग्निचित्यावतां तथा । कथाभी रमसे नित्यमुपचाय्यवतां शुभे ! ॥ ६७ ॥ कुण्डपाय्यवतामित्यादि -कुण्डेन पीयते ऽत्र ऋतौ कुण्डपाय्यः क्रतुः । 'ऋतौ कुण्डपाय्यसंचाय्यौ |३|१|१३०|' इति निपातितम् । कच्चित्कथाभी रमसे। 'दूलोपे पूर्वस्य दीर्घोडण: ६।३।१११।' इति दीर्घः । तथाग्निचित्यावताम् आहिताग्निकानां कथाभी रमसे | 'चित्याग्निचिये च ||३||१||१३२|| इति निपात्यते । अग्निचयनमग्निचित्या | भावे क्यप् तुक् च । तद्वतां तथोपचाय्यवतां उपचीयते इत्युपचाय्यो ऽग्निः । 'अग्नौ परिचाय्युपचाय्यसमूह्ययाः ।३।१११३१ इति निपातितः । उपपूर्वाच्चिनांतेर्ण्यदायादेशौ । तद्वतां कथाभी रमसे शुभे कल्याणि ।। ६७ ।। इति कृत्याधिकारः ।। १ 'यो गार्हपत्यदानीय दक्षिणाग्निः प्रणीयते । तस्मिन्नानाय्यः' इत्यमरः १२ आत्महतः समानाधिकरणजातीययोः ६ | ३ | ४६' इत्याकरान्तादेशः | ३ 'गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः । इत्यमरः । ४ पिठरणेत्यर्थः । 'पिठरः 'स्थाल्युखा कुण्डम्' इत्यमरः । ५ तपस्विनीति भावः ।