पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ षष्टः- ( १४६ ) भट्टिकाव्ये जयमङ्गलासमे ते- स तामूचेऽथ कच्चित् त्वममावास्यासमन्वये | पितॄणां कुरुषे कार्यमपाक्यैः स्वादुभिः फलैः ॥ ६३ ॥ स इत्यादि – अथानन्तरं त्यक्तश्रमः स रामः तां शबरीमूचे उक्तवान् । कञ्चित्वं किं त्वं पितॄणां कुरुपे कार्यम् । क्यवभावपक्षे 'ऋहलोत् ||३|१||१२४|| कदा अमावास्यासमन्वये अमावास्यायाः सम्प्राप्तौ अमावास्या- यौमित्यर्थः । 'अमावस्यदन्यतरस्याम् |३|१२|१२२|' इति निपातनम् । तत्र हि अमाशब्दे उपपदे वसेर्धातोरमा सह वसतो यस्मिन्काले सूर्याचन्द्रमसौ इति कालेऽधिकरणे ण्यत् । तस्मिन्नन्यतरस्यां वृद्धयभावः । कैः फलैः। स्वादुभिः मिष्टैः । अपचनीयैः अनुपहतत्वात् 'ऋहलोर्ण्यत् |३|१||१२४|| ||६३॥ अवश्यपाव्यं पवसे कच्चित् त्वं देवभाग्घविः । आसाव्यमध्वरे सोमं द्विजैः कञ्चिन्नमस्यास ॥ ६४ ॥ अवश्यपाव्यमित्यादि-देवभाक् देवान् भजत इति 'भजो ण्विः |३|२|६२।' तद्धविः कच्चित् किं पवसे पवित्रोकरोषि मन्त्रादिनाँ । 'झयो हो- ऽन्यतरस्याम् |८|४|६२।' इति हकारस्य पूर्वसवर्ण: । 'पूङ् पवने' इति भौवादिकः । कीदृशमवश्यपाव्यमवश्यम्भावेन पावयितव्यमित्यर्थः । 'ओराव- श्यके |३|१|१२५|' इति ण्यत् । 'मयूरव्यंसकादयश्च २|१२|७२ |' इति समासः । ‘लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि' इति मकारलोपः । सोममोषधिवि- शेषम् । आसाव्यमभिषवार्हम् । आङ्र्वात्सुनोते: 'आसुयुवपिरपित्रपिचमश्च |३||१||१२६ || इति ण्यत् । अध्वर यज्ञे द्विजैः सह कच्चित्त्वं नमसि नमस्करोषि ॥ ६४ ॥ आचाम्यं सन्ध्ययोः कच्चित् सम्यक् ते न प्रहीयते । कच्चिदग्निमिवानाय्यं काले सम्मन्यसेऽतिथिम् ॥ ६५ ॥ आचाम्यमित्यादि--प्रभतऽपराह्णे च सन्ध्ययोर्यदाचाम्यमुपस्पर्शनम् । पूर्ववत् ण्यत् । कच्चित्सम्यक् यथावत्तव तत्र न प्रहीयते न तस्य हतिर्भवति । १ 'कञ्चित्कामप्रवेदने ।' इत्यमरोत्तयऽमिभतार्थप्रश्नार्थक मिङमव्ययम् । २ अत्रामावस्येतिपदं श्राद्धाहकालोपलक्षणम् | ३ यथाविधि कच्चिद्धवनमपि कुरुष इति भावः । ४ आवश्यकत्वं तापसाश्रमार्हत्वात् । ५ ' इयं कारिका 'पृषो. दरादीनि यथोपदिष्टम् ६ । ३ । १०९ ' इति व्याख्यायां दृश्यते । 'यज्ञः सवो- इध्वरो यागः' इत्यमरः । ६ ब्राह्मणैरित्यर्थः । 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । ७ अत्र 'नमोवरिवश्विनडः क्यच् ३ | १ | १९' इति क्यच् | ८ 'ओरावश्यके ३ ।१। १२५' इत्यनेनैवेत्यर्थः ।