पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् | ( १४५) न्तरमुच्यते वसानां वल्कले शुद्धे विपूयैरिति । क्षामां कृशाम् |' क्षायो मः |८|२|५३|| इति निष्ठामत्वम् । अञ्जनपिण्डस्येवाभा यस्या अस्तीति तां कृष्णाम् । दण्डिनीं गृहीतदण्डाम् । आस्तीर्यत इति आस्तर: 'ऋदोरप् |३|३| ५७ | अजिनंमास्तर उत्तरासङ्गो यस्यास्तामजिनास्तराम् || ६० || प्रगृह्यपदवत् साध्वीं स्पष्टरूपामविक्रियाम् । अगृह्यां वीतकामत्वाद्देवगृह्यामनिन्दिताम् ॥ ६१ ॥ - प्रगृह्यत्यादि – अविक्रियामजातविकाराम् अत एव स्पष्टरूपाम् । एवं च साध्वीं साधुचरिताम् । किमिव प्रगृह्यपदवत् | यस्य पदस्य प्रगृह्यसंज्ञा तत् प प्रगृह्यम् । 'प्रत्यपिभ्यां महेः | ३|१|११८|' इत्यनुवृत्तौ 'पदास्वैरियाह्यापक्षेषु च |३|१||११९ || इति प्रपूर्वाद् ग्रहेः पदेऽभिधेये क्यप् | यथा तत्पद्मविकाररूप-- त्वात् स्पष्टं सांधु च । 'लुतप्रगृह्या अचि नित्यम् | ६ | १ | १२५|' इति प्रकृतिभावेन स्वरसन्ध्यभावादित्यर्थः । कथमजात विविक्रियेति चेदाह - अगृह्यां ग्रहेर स्त्रैरवि- षये क्यप् | गृह्या अस्वैरिणी अस्वतन्त्रा न भवतीत्यगृह्या | कस्मात् वीतकाम- त्वात् । वीतरागा हि स्वतन्त्रा भवन्ति । देवगृह्याममपक्षाम् । पक्षविषये क्यप् एवं चानिन्दितामगर्हिताम् ॥ ६१ ॥ धर्मकृत्यरतां नित्यमवृष्यफलभोजनाम् | दृष्ट्वा ताममुचद्रामो युग्याडयात इव श्रमम् ॥ ६२ ॥ धमकृत्यरतामित्यादि--धर्मकृत्यरतां पवित्रकर्म्मचरण एवं परायणाम् । धर्मकृत्ये धर्म्मवर्धके कर्म्मणि रता ताम् । नित्यं निरन्तररामिति भावः । अवृष्य- फलभोजनाम् । अवृष्याणीन्द्रियाविकारनिभित्तानि फलानि भोजनं यस्यां: । ताम् । तपश्चर्योचितभोजनकारिणीमितिभावः। 'विभाषा कृवृषोः | ३|१|२०|' इति क्यप् | दृष्ट्वा तां तथाविधाम् । श्रमममुचत् मुक्तवान् । तदर्शनाहादितत्वात् । युग्यायात इव वानं प्राप्त इव क्यप ।' युग्यं च पत्रे | ३ | १ | १२१|' इति निपातितम् ।। ६२ ।। १ 'अजिनं चर्मेत्यर्थ: । 'अजिनं चर्म्म कृत्तिः स्त्री इत्यमरः | २ यथा बहिः तथाऽन्तरात्मन्यपि शुद्धामिति भावः । अन्यथा तु स्वरूपज्ञानासम्भव एव । ३ युग्यं वाहनम् आयातः प्राप्त इति तथोक्त इव । अत एवाह वाहन- मित्यादि । 'इवेन समासो विभक्तचपलोपः पूर्वपदप्रकृतिस्वरत्वं च' इति समासः । ४ 'सर्वे स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् |' इत्यमरः । 23