पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ षष्ठः- - (१४४) भट्टिकाव्ये जयमङ्गलासमेते- प्रियो जातो रामस्येत्यर्थात् । 'राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः |३|१|११४|' इति क्यबन्ता राजसूयादयः ॥ ५७ ॥ अकृष्टपच्याः पश्यन्तौ ततो दाशरथी लताः । रत्नाऽन्नपान कुप्यानामातुर्नष्टसंस्मृती ॥ ५८ ॥ अकृष्टपच्या इत्यादि- ततो निशाचरगमनानन्तरं दाशरथीं रामलक्ष्मणा- वाटतुर्गतवन्तौ । कीदृशौ । नष्टा संस्मृतिः ययोः । केषां संस्मृतिः रत्नान्नपान- कुप्यानाम् | रत्नान्नपानानि प्रसिद्धानि | कुप्यं स्वर्णरजताभ्यामन्यत् वस्तु वत् 'स्यात् कोशश्च हिरण्यं च हेमरूपे कृताकृते । ताभ्यां यदन्यत् तत् कुप्यम् ।' इत्यमरः संज्ञायां क्यप् | गुपेरादेः गकारस्य ककारः । कर्माण पष्ठी उ॒ताः पश्यन्तौ । कृष्टे पच्यन्ते इति कृष्टपच्याः । पूर्ववत् क्यप् | पश्चान्नञ्स- मासः । स्वयमेव पच्यन्ते यास्ता इत्यर्थः ॥ ५८ ।। समुत्तरन्तावव्यथ्यौ नदान् भिद्योद्धचसन्निभान् । सिध्यतारामिव ख्यातां शबरीमापतुर्वने ॥ ५९ ॥ समुत्तरस्तावित्यादि-तौं तस्मिन् वने शबरीमापतु: शबरीनाम्नीमित्यर्थः । प्राप्तवन्तौ | अव्यथ्यौ न व्यथेते इति पूर्ववत् क्यप् । परिश्रमवर्जितावित्यर्थः । नदान् समुत्तरन्तौ । कीदृशान् भियोद्धधसन्निभान् । भियोद्धयौ नविशेषौ । 'भिद्योद्धयाँ |३|१|११५|' इति पूर्ववत् निपातितम् । भिनत्ति कळमिति भिद्यः । उज्झत्युदकमिति उद्धयः । ‘उज्झ उत्सर्गे' | दुकारात्परस्य धकारो निपात्यते । तत्सदृशान् नदान् । सिध्यतारामिव ख्याताम् | सिव्यन्त्यस्मिन्निति सिध्यः | 'पुण्यसिध्या नक्षत्र | ३ | १ | ११६ ।। इति निपातनात् । पुण्याख्यां तारामिव ख्यातां शबरीम् ॥ ५९ ॥ वसानां वल्कले शुद्धे विषूयैः कृतमेखलाम् । क्षामामञ्जनपिण्डाऽऽभां दण्डिनीमजिनाऽऽस्तराम् ॥ ६० ॥ वसानामित्यादि–वसानां परिदद्वानां वल्कले त्वचा । विपूयैर्मुजैः कृत- मेस्त्रलां कृतकटिसूत्राम् । यद्यपि विपूर्वस्य पवतेः । 'विपूयविनीयजित्यामुञ्ज- कल्कहलिषु |३|१|११७|' इति मुजे निपातितं, तथापि मुञ्जानामनुपहतत्वं ज्ञापयितुं विशेषणं, पवित्रैरित्यर्थः । मुजशब्दस्तदानीं सामान्यमाह । विपूयैरित्युक्ते मुखरित्युपादानमनर्थकम् । एवं कृत्वा पाठा- १ उत्सर्गस्त्यागः | २ 'सर्वसिद्धिकरः पुष्यः' इति दैवज्ञेोक्तः