पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकाण्डम् | ( १४३) वचो नवी- अनृतोद्यमित्यादि--सत्यमुद्यत इति कर्मणि यत् । अहं सत्यं मीत्यर्थः, अनृतोद्यं तत्र सुग्रीवे नास्ति अनृतमसत्यं उद्यं वचनं अनृतोद्यम् । भावे क्यप् । यजादित्वात्संप्रसारणम् । उभयत्रापि 'वदः सुपि क्यप् च । ३।१ १०६।' इति चक्काराद्यत् । यस्मादेव तस्मान्मित्रभूयं मित्रभावं गतः । भुवो भावे।३।१।१०७।इति क्यपू । रिपुह्त्यां शत्रुवधमित्यर्थः । करिष्यसि, 'इनस्त च ।३।१११०८।' इति क्यप् तकारश्चान्तादेशः ॥ ५४ ॥ 6 सर्गः ] आइत्यस्तेन वृत्येन स्तुत्यो जुष्येण संगतः । इत्य: शिष्येण गरुवद् गृध्यमर्थमवाप्स्यसि ॥ ५५ ॥ आदृत्य इत्यादि -- तेन सङ्गतः सन् गृध्यमभिलपणीयमवाप्स्यसि । 'ऋदुधाचाक्लृपि चृतेः । ३।१ । ११० । इति क्यप् । कीदृशः कीदृशेनेत्याह- / आदृत्यः आदरणीयः । वृत्येन वरणीयेन | स्तुत्यः स्तवाह: । जुष्येण सेव्येन जुषीप्रीतिसेवनयोः हनुमत्प्रभृतीनाम् । क इव शिष्येण गुरुरिव यथोपाध्यायः शिष्येण शासनीयेन इत्यः अनुगम्यस्तद्वदिति । एतिस्तुशास्वृदृजुषः क्यप् | ३ | १। १०९।' इति क्यप् । 'स्वस्य पिति कृति ६|||७१ |' इति ॥ ५५ ॥ नाsखेयः सागरोऽप्यन्यस्तस्य सत्यशालिनः । मन्युस्तस्य त्वया मार्ग्यो सृज्य: शोकश्च तेन ते ॥ ५६ ॥ नास्त्रेय इत्यादि - तस्य सुग्रीवस्य सद्भृत्यशालिनः हनूमदादिभृत्ययुक्तस्य। 'भृञोऽसंज्ञायाम् । ३ । १ | ११२ ।। इति क्यप् | अन्यो द्वितीयः सागरो ऽपि नाखेयो न खननीयः अपि तु खननीय एव । अपिशब्दः सम्भावनायाम्। तस्य कारणं सद्भृत्यशालित्वम् | 'ईच खनः | ३|१|१११|' इति क्यवीकारौ । तस्य मन्युस्त्वया मार्योऽपनेयः । ते तव तेन च शोको मृज्य: 'मृजेर्विभाषा |३|१|११३|' इति यद्विकल्पे ण्यत् ॥ ५६ ॥ स राजसूययाजीव तेजसा सूर्यसन्निभः । अमृषोद्यं वदन् रुच्यो जगाहे द्यां निशाचरः ॥ ५७ ॥ स इत्यादि - - स निशाचरो द्यामाकाशं जगाहे गतः राजसूययाजीव । राज्ञा सूयते राजा वा अनेन सूत इति राजसूयः ऋतुः । तेनेष्टवान् स राज- सूययाजी । “करणे यजः | ३|२१८५१ इति णिनिः । तद्वदित्यर्थः । रुच्यः ( १ अत्रोपमा । २ 'शङ्कासम्भावनास्वीप |' इत्यमरः ।