पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१४२ ) भट्टिकाव्ये जयमङ्गलासमैते- तेन वोन हन्तासि त्वमयें पुरुषाऽशिनाम् | राक्षसं क्रूरकर्माणं शकारिं दूरवासिनम् ॥ ५१ ॥ [ षष्ठ:--- तेनेत्यादि - - तेन सुप्रीवेण त्वं राक्षसं हन्तासि निहनिष्यसि । वह्येन वह- त्यभिप्रेतमनेनेति, 'वह्यं करणम् । ३ । १ । १०२ ।। इति यत् । कीदृशमये स्वामिनम् । पुरुषाशिनां राक्षसानाम् । 'अर्य: स्वामिवैश्ययोः । ३ । १। १०३ ।' इति यन्निपात्यते । क्रूरकर्माणं पापाचारं शकारिं रावणम् । यद्येवम- हमेव हन्तुं समर्थ इत्यभिप्रायेणाह-दूरवासिनं समुद्रान्तरितवासित्वात् एका- किना हन्तुं न शक्यत इति भावः ॥ ५१ ॥ यद्यनवद्यस्तदा कथमस्य पण्यो भ्रातृबंध इत्याह- आस्ते स्मरन् स कान्ताया हताया वालिना कपिः । वृषो यथोपसर्याया गोष्ठे गोर्दण्डताडितः ॥ ५२ ॥ आस्ते इत्यादि चालिना हृतायाः कान्तायाः स्मरन्नास्ते कोऽन्यः सम्भ- वेत् यस्तं हत्त्वा त्वया मां योक्ष्यते, 'अधीगर्थदयेशां कर्म्मणि | २ | ३|५२ ।। इति कर्मणि पष्ठी । कस्येव वृपो यथा उपसर्याया आसन्नगर्भकालायाः गोः स्मरन् गोष्ट आस्ते । 'उपशर्या काल्या प्रजने । ३ । १ । १०४ ।' इति निपातितम् । दण्डताडितः सन् दण्डस्थानीयोऽत्र वाली ॥ ५२ ॥ तेन सङ्गतमार्येण रामाऽजर्ये कुरु द्रुतम् । लङ्कां प्राप्य ततः पापं देशग्रीवं हनिष्यसि ॥ ५३ ॥ तेनेत्यादि- हे राम तेन वानरेण हनुमतेत्यर्थः संगतं सख्यं अजयम् अनपा- पम् । न जयित इत्यस्मिन् वाक्ये 'अजय संगतम् । ३।१।१०५ |' इति निपातितम् । आदौ विशेष्यत्वेनोपात्तं संगत तद्विशेषणनजर्यं कुरु द्रुतं यावत्तस्यानेन युष्म- द्विधेन संगतं न भवति । आर्येण सदाचारेण | पापप्रधानत्वात् 'ऋहलोत् |३|१| १२४ ।' ततः सङ्गतात् लङ्कां प्राप्य गत्वा पापं पापीयांसं रावणं हनिष्यसि ॥ ५३॥ ननु यावत्कार्य नसिध्यति तावत्संगतं गच्छति कृतकृत्यस्तु नैवेदात आह- अनृतोद्यं न तत्रास्ति सत्यवद्यं ब्रवीम्यहम् । मित्रभूयं गतस्तस्य रिपुहत्यां करिष्यसि ॥ ५४ ॥ १ अतएव 'स्यादर्य: स्वामिवैश्ययोः ।' इत्यमरः सङ्गच्छते । २ क्रूरं प्रधानं कर्म्म यस्य तम्, निर्दयत्वं हि पापमूलमिति तथोक्तम् । ३ रुमानाम्न्या इति शेषः ।