पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । (१४१) चयाँ राक्षसः मुनेः स्थूलशिरस : शापाज्जात उत्पन्नः । माद्यत्यनेनेति मद्यम् । चरितव्यमिति चर्यमैतौ पूर्ववद्यत्प्रत्ययान्तौ । पापं चर्य यस्येत्यवदत् स योजन- बाहुः तं रामम् । वाक्यार्थोऽत्र कर्म ॥ ४८ ॥ प्रयातस्तव यम्यत्वं शस्त्रपूतो ब्रवीमि ते । रावणेन हृता सीता लङ्कां नीता सुरारिणा ॥ ४९ ॥ प्रयात इत्यादि — इदानीं तव यम्यत्वं वशत्वं प्रयातः । यमेः पूर्ववत् यत् । शस्त्र- पूतस्तव शस्त्रेण पावितः सन् ब्रवीमि ते तुभ्यं कथयामि युष्मदश्चतुर्ये - कवचनस्य 'तेमयावेकवचनस्य |८|१||२२|| इति ते आदेश: । 'क्रियाऽर्थोप- पदस्य च कर्म्मणि स्थानिन: २१६|१४|| क्रियायोगे चतुर्थी | कथनीयमाह- रावणेन सुरारिणा देवशत्रुणा हृता सीता लङ्कां नीता प्रापिता ॥ ४९ ॥ वैदेही प्राप्या कथमिति यमुपायं पृष्टवान् तं कथयन्नाह - ऋष्यमूकेऽनवद्योऽस्ति पण्यभ्रातृवधः कपिः । सुग्रीवो नाम वयऽसौ भवता चारुविक्रमः ॥ ५० ॥ ऋष्यकमूक इत्यादि ऋप्यमूके पर्वते सुग्रीवो नाम कपिः चारुविक्रमो महापराक्रमोऽस्ति । चारुः शोभनः प्रशंसनीय ईत्यर्थः । विक्रमः महत्त्वेन यस्य सः असौ भवता वर्यो वरणीयः प्रार्थनीय : 'वर ईप्साय म्' इति चौरादिकात्स्वा- थिंकण्यन्तात् 'अचो यत् |३|१|९७१' इतियत् । यद्वा 'अवद्यपण्यवर्थ्या गर्ह्यपाण- तव्यानिरोधेषु । ३ । १ । १०१ ।' इत्यत्र वृङो वयति स्त्रियामनिरोधे अप्रति- बन्धे निपातितत्वात् । सततप्रवर्तिनी आनरोध्या वर्या प्रीतिर्यस्येति 'अर्शआदि- भ्योऽच्५।२।११७।’इत्यच् स च भवता सह वर्य : प्रीतिमान् समानव्यसनत्वात् यतः पण्यभ्रातृवधः सः पण्यो विक्रेतव्यो भ्रातुर्वालिनो वधो येन | याद सीताम- न्वेक्ष्यसि तदा वालिनमहं हनिष्यामीति, वालिनं यदि हानेष्यसि तदा सीता- न्वेश्यामीति वाचा विहिताभिसन्धिः । यद्येवं तदा कथं मया पापीयान् वर्य इत्यत आह – अनवद्यः अगर्हणीयः । दारापहारित्वेन आतायिनो भ्रातुर्वघेन निर्दोषत्वादिति भावः ॥ ५० ॥ १ पापचर्य: पापकारी । २ स्थूलं शिरो यस्येति, तत एव तथा ख्यांतस्य | ३ नावद्यं गर्हा, दोषो वा, यस्य तादृश इतदिमुक्तम् । 'कुपूयकुत्सितावद्यखेद- गणिकाः समाः ।' इत्यमरः ।