पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १४० ) भट्टिकाव्ये जयमङ्गलासमेते- [ षष्ट:- पतितः पतेर्लङि रूपम् । विह्वलो व्याकुलः भुवं भूमिं ह्वलयन् । 'ह्वल चलने' । 'घटादित्वे ह्रस्वत्वम् ॥ ४५ ॥ इति प्रकीर्णकाः ॥ इतः परं कृत्याधिकारः --- प्रष्टव्यं पृच्छतस्तस्य कथनीयमवविचत् । आत्मानं वनवासं च जेयं चारिं रघूत्तमः ॥ ४६ ॥ प्रष्टव्यमित्यादि- इस योजनचाहुँ: निहतो रामं पप्रच्छ 'को भवान्' कस्या पुत्रः, कथं तव वनवासः, कस्माच्चोद्विमः सन् भ्रमसि' इति । प्रष्टव्यं प्रा पृच्छतस्तस्य । 'तव्यत्तव्यानीयरः । ३।१।९६।' इति तव्यत् ।'ब्रश्चभ्रस्ज सृजमृजयज- राजभ्राजच्छशां षः | ८|२|३६ |' इति षत्वम् । ष्टुत्वं च | रघूत्तमस्तदानीम् । कथ- नीयं कथनाई प्रश्नानुरूपम् । 'तव्यत्तव्यानीयरः ३१११९६ इत्यनीयर् । अवी- वचद्वक्तिं स्म । वच भाषणे ।' चौरादिकः । स्वार्थिको णिच् लुङ् चङ् । णि- लोपः ह्रस्वः । द्विर्वचनसन्वद्भावेत्वदीर्घत्वानि । किं तदित्याह- आत्मानम् अहं रामो दाशरथिरिति । वनवासं पितुरादेशात् वनवासः इति । जेयं जेतव्यं चारिं यः कनकमृगच्छलेन सुवर्णकारस्य मृगरूपधारिणो माचिस्य व्याजे- नेत्यर्थ: । रावणः सीतामपहृतवानिति ॥ ४६ ॥ लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः । सह्यः कथं वियोगश्च गद्यमेतत्त्वया मम ॥ ४७ ॥ लभ्येत्यादि – कथं केन प्रकारेण उपायेन लभ्या वैदेही प्राप्या लव्धुं शक्ये - त्यर्थः। ‘पोरदुपधात् । ३।१।९८ । ' इति यत् । रिपुः शत्रुः कथं केन प्रकारेण द्रष्टुं शक्यः‘शक'वृषज्ञाग्लाघटरभलभक्रमसहाहा॑स्त्यर्थेषु तुमुन् |३|४||६५|| इति तुमुन् वियोगश्चायं सीतायाः कथं केन प्रकारेण सह्यः सोढव्य : 'शकिसहोश्च | ३|१|९९। इति यत् । गद्यमेतत् कथनीयमेतत् । 'गदमदचरयमश्चानुपसर्गे |३|१२|१०० इति यत् । ममेतिविवक्षायां षष्ठी ॥ ४७ ॥ त्वं पुनः कः इति पृष्ट आह-- अहं राम ! श्रियः पुत्रो मद्यपीत इव भ्रमन् । पापचर्यो मुनेः शापाज्जात इत्यवदत्सं तम् ॥ ४८ ॥ अहमित्यादि — हे राम अहं त्रियः पुत्रः मद्यपीत इव । 'वाहिताग्न्यादि- घु | २|२|३७७' इति निष्ठान्तस्य परनिपातः । कार्याकार्यविवेकाभावात्पाप- १ चालयन्नित्यर्थः । २ योजनायतभुज इति भावः । ३ आत्मानं स्वमित्यर्थः । ४ पति मधं येनेति तथोक्तः ।