सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् | ( १३९) ऽमित्रे | ३|२|१३१|' इति शतृप्रत्ययः । आख्याय सीता रावणेन हृतेति कथयि- त्वा । पततीं पक्षिणां वरो जटायुर्ममारेति परेणान्वयः ॥ ४२ ॥ व्रणवेदनया ग्लायन्ममार गिरिकन्दरे | तस्याश्यम्बुकियां कृत्वा प्रतस्थाते पुनर्वनम् ॥ ४३ ॥ व्रणेत्यादि -त्रणकृता वेदना पीडा | मध्यमपदलोपी समासः । तथा ग्ला- यन् ग्लानिं गच्छन् । शतर्यायादेशः । ममार मृतः । क्व गिरिकन्दरे यं गिरि- मन्वसृपत् तस्य निन्नप्रदेशे । कन्दं रातीति कं दारयतीति वा व्युत्पत्तिमात्रम् । तस्य जटायोरग्न्यम्बुक्रियां दाहमुद्कदानं च कृत्वा पुनर्भूयो वनमरण्यं प्रतस्था- ते प्रस्थितौ । ‘समवप्रविभ्यः स्थः | १|३|२२|| इत्यात्मनेपदम् ॥ ४३ ॥ सत्त्वानजस्रं घोरेण बलाऽपकर्षमश्नता । क्षुध्यता जगृहाते तौ रक्षसा दीर्घबाहुना ॥ ४४ ॥ सत्त्वानित्यादि - तौ रामलक्ष्मणौ रक्षसा राक्षसेन जगृहाते गृहतिौ । कर्मणि लिट् | किंनाम्ना दीर्घबाहुना | अन्वर्था चेयं सञ्ज्ञा | एक एकेन बाहुना द्वितीयो द्वितीयेनेति । क्षुध्यता बुभुक्षमाणेन घोरेण भीमेन । सत्त्वान् प्राणिनः अजस्रं सदा । नञपूर्वाज्जसः ‘नमिकम्पिस्म्यजसकहिंसपोरः | ३|२|१६७ | इतिरः । अश्नता भुञ्जानेन । किं कृत्वा बलापकर्षे बल । दाकृष्येव पाकादिकमनपक्ष्य। 'अपादाने परीप्सायाम् |३|४|५२|| इति णमुल ॥ ४४ ॥ भुजौ चकृततुस्तस्य निखिशाभ्यां रघूत्तमौ । सच्छिन्नवाहुरपतद्विद्दलो ह्वलयभुवम् ॥ ४५ ॥ ( इत्येते प्रकीर्णका: श्लोकाः ) । भुजावित्यादि — रघूत्तमौ रामलक्ष्मणौ तस्य योजनबाहो: बाहू यथास्थान - मागतौ चकृततुः च्छिन्नवन्तौ । 'कृती छेदने' । इत्यस्य रूपम् । काभ्यां निखिं शाभ्यां खङ्गाभ्याम् । निर्गतस्त्रिंशतोऽङगुलिभ्य इति वाक्ये 'डचप्रकरणे सं- ख्यायास्तत्पुरुषस्योपसङ्ख्यानम्' इति त्रिंशच्छब्दाड्डुज्विधिः । 'निरादयः क्रान्ता द्यर्थं पञ्चम्या' इति समासः । टिलोपः । स छिन्नबाहुः कृत्तभुजः सन् अपतत् १ पतत्रिपत्रिपतगपतत्प त्ररथाण्डजाः ।" इत्यमरः | २ शाकपार्थिवादित्वा- दिति शेषः । ३ अजस्रं निरन्तररामित्यर्थः । 'अजस्त्रानारताश्रान्तः' इत्यमरः । ४ 'खड्नेतु निविंशचन्द्रहासासिरिष्टयः ।' इत्यमरः ।