पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकण्डम् | (१२९) आत्मानमित्यर्थात् । प्रग्लायति प्रकर्षेण ग्लानिं गच्छति । ग्लायते: शिव्यायादेशः । शाखायां प्रलम्बमानं ग्लानिं गच्छन्तं वीक्ष्येदमुत्प्रेक्षि- तम् । कुतः शोकात्तया विना सीताविच्छेदेन ॥ १३ ॥ ऐक्षिष्महि मुहुः सुप्तां यां मृताऽऽशङ्कया वयम् । अकाले दुर्मरमहो यज्जीवामस्तया विना ॥ १४ ॥ ऐक्षिष्महीत्यादि-यां वयमैक्षिष्महि ईक्षितवन्तः । ईक्षे: सेटो लुङ् | मुहुः सुप्तां अविच्छिन्ननिद्रत्वात् । मृताशङ्कयेति अनिष्टशंसित्वात् प्रिय- जनहृदयस्य । इदानीं तया सीतया विना अहो वयं यज्जीवामस्तद्- काले दुरणमिति विललाप । जीवितस्यापूर्णकाले । दुःखेन मरणमि- ति भावे खल् ॥ १४ ॥ अक्षेमः परिहासोऽयं परीक्षां मा कृथा मम । मत्तो मा इन्तर्धिथाः सीते! मा रंस्था जीवितेन नः ॥ १५ ॥ अक्षम इत्यादि - परिहसनं पारहास : क्रीडा । अयमक्षेमो न कल्याण- करः । मम परीक्षां किं मामपश्यन् दुःखित आस्ते न वेति मा कृथाः मा कार्षीः । अपितु दर्शयात्मानम् मा निलीयस्व | 'उच्च |१|२||१२|| इति कित्त्वाद्गुणाभावः । 'स्वात् ||२|२७|' इति सिचो लोपः । तस्माद्धेतो: सीते मान्तर्हिथा: । अन्तर्हिता मा भूः । 'अन्तर्वै येना- दर्शनमिच्छति |१|४|२८|' इत्यपादानसंज्ञायां 'पञ्चम्यास्तसिः' । 'प्रत्य-- योत्तरपदयोश्च । ७ । २ । ९८ ।' इति मदादेश: 1. लुङि, 'स्थाघ्वो- रिच्च । १ । २ । १७ ।' इति सिच: कित्त्वमित्त्वं च । 'हस्वादङ्गात् | ८ | २ । २७ ।' इति सिचो लोपः । नोऽस्माकं जीवितेन मा रंस्था : क्रीडां मा कार्षीः । रमेरात्मनेपदत्वात्तङ् ॥ एते प्रकीर्णकाः श्लोकाः ॥ १५ ॥ अतः परं सिजधिकारः । सिचं सापवादमधिकृत्याह- अहं न्यवधिषं भीमं राक्षसं क्रूरविक्रमम् | मा घुक्षः पत्युरात्मानं मान श्लिलः प्रियं प्रिये ॥ १६ ।। अहमित्यादि-यतोऽहं राक्षसं मारीचं क्रूरविक्रमं भीमं भयानकं न्यवविष निहतवानस्मि । हन्तेः, 'लुङि च । २ । ४ । ४३ ।' इति वधादेशः । अदन्त- त्वाद्धयभावः । तस्मान्मा घुक्षः न गोपय पत्युरात्मानम् । 'अन्तर्धी येनादर्श-