पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३० ) भट्टिकाव्ये जयमङ्गलासमेते- [ षष्ठः- नार्मच्छति १ । ४ । २८ । इत्यपादानत्वम् | 'ख्यत्यात्परस्य | ६ | १ | ११२ ।' इत्युत्वम् । गुहे: 'शल इगुपधादनिट: क्स: । ३ । १ । ४५ ।' । 'हो ढः । ८ । २ । ३१ ।। भभावकत्वषत्वानि | सिपश्च विसर्जनीयः । मा नश्लिक्षः मान परिरब्धाः अपि तु लिष्य प्रियं माम् । हे प्रिये । 'लिव आलिङ्गने | ३ । १ । ४६ ।' इति क्सः ।। १६ ।। मा स्म द्राक्षीमृषा दोषं भक्त मां मातिचिकिशः । शैलं नवशिश्रियद्वामा नदीं नु प्रत्यदुद्रुवत् ॥ १७ ॥ 6 मा स्मेत्यादि-- मृषा दोपं व्यलीकं दोष मा द्राक्षीः । मयीत्यर्थात् 'स्मोत्तरे लेच। ३। ३ । १७६ ।। इति चकाराल्लुङ् । 'शल इगुपधानिटः क्सः ३ । १ । ४५ ।' इति क्सम्य न दृशः ।३।२ । ४७ ।। इति निषेधः । 'इरितो वा । ३ । १ । ५७ ।' इत्यभावे सिच | सृजिदृशोर्झल्य- हलन्तलक्षणा वृद्धि: । 'ब्रश्चभ्रस्जसृज- Jo मकिति । ६ । १ । ५८ ।' इत्यम् । सृजयजराजभ्राजच्छशां षः । ८ । २। ३६ ।' इति षत्वम् । यतोऽहं • भक्तस्ततो मां भक्तं मातिचिक्लिश: नातिक्लेशयः । किशेर्ण्यन्तात् सिपि । ‘णिश्रिद्रुस्रुभ्यः कर्त्तरि चङ्। ३ । १ । ४८ ।' इति चङ् । णिलोपहस्त्रद्विर्वच - नानि । पुनर्विकल्पयन्नाह । मयि दोपदर्शनाद्वामा मत्प्रतिकूलवर्तिनी सती शैल नु पर्वत कमप्यशिश्रियदाश्रिता उत नहीं प्रत्यदुद्रुवत् प्रतिगतेत्यर्थः । शब्दो वितर्के । पूर्ववच ॥ १७ ।। ऐ वाचं देहि धैर्ये नस्तव हेतोरसुस्रुवत् | त्वं नो मतिमिवाऽधासीर्नष्टा प्राणानिवाऽदधः ॥ १८ ॥ ऐ वाचमित्यादि — ऐशब्दो निपातोऽभिमुखीकरणे वर्तते । वाचं देहि । प्रार्थनायां लोट् । 'ध्वसोरेद्धावभ्यासलोपश्च | ६ | ४ | ११९ ।' इत्येत्वम् । किमिति चेदाह । धैय नोऽस्माकं धरिता तब हेतोरसुत्रवत् गलितम् | नष्टा अदर्शनं गता सती त्वं नोऽस्माकं मति बुद्धिमधासीरिव पीतवर्ताव | बुद्धेर- पगमात् । ' विभाषा धेट् व्योः । ३ । १ । ४९ ।' इति यदा न चङ् तदा 'यमरमनमातां सक् च । ७ । २ । ७३ ।। इति सगिटैौ । प्राणानद्धः पीत- वती । कायस्याचेष्टत्वात् । चङि रूपम् । 'आतो लोपः। ६।४।६४|१ ॥ १८ ॥ १ 'धेट्' पाने लुङ् । २ शोकाभिभूतत्वेन जडवत्पतितत्वादिति भावः ।