सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२८ ) भट्टिकाव्ये जयमङ्गलासमेते- [ षष्ठः- णाह वत इति । बतशब्दः खेदे | सौमित्रिरेपि तया सीतया अन्यादृशः सम्भा- वित इति विस्मितो हीत्याह । ह्रीशब्दो विस्मये । यदि नाम स्त्रिया मूर्खतया तथाभिहिंत सौमित्रिणा विदुषा कथं तादृशः शापो दत्त इत्यभिप्राये- णाह चित्रमिति | चित्रमाश्चयें । यदेवंविधोऽपि स्खलतीति । सर्वमेव दुर्जातं कैकेयीप्रभवमिति क्रुध्यन् हूं मातरित्याह । हूंशब्द: क्रोधे । अथवा सर्व- मेतत् दैवतचेष्टितं न ममानुष्ठितमित्यभिप्रायेणाह धिग्दैवतानीति । धिक् कुत्सायाम् । प्राणांस्त्यक्तवन्तमपि पितरं पुनरहं द्रष्टास्मात्यभिप्रायेणाह | हा पितेंः क्व द्रष्टव्योऽसीति । हा शोके । हे सुञ्ज सुभ्रू: (सीते ) व गतासीति । भ्रूशब्दात् 'अप्राणिजातेश्चारज्ज्वादीनामुपसंख्यानम्' इत्युङ् । उवर्णान्त- मात्रस्य विधानाद्बहुव्रीहिः । उपसर्जनत्वं च । पुनः स्त्रियामूङ् । 'अन्ता - दिवच्च | ६|११८५|' इति पूर्व प्रत्यन्तवत्त्वात् प्रातिपदिकत्वम् । अतः सम्बुद्धौ हृस्वत्वम् । विललाप स एवं कृत्वा बहनेकप्रकारं विलापं कृतवान् ।। १.१. ।। इहाऽऽसिष्टाऽशयिष्टेह सा सखेलमितोऽगमत् | अग्लासीत् संस्मरन्नित्यं मैथिल्या भरताऽग्रजः ॥ १२ ॥ 'इदमो हः |५|३| इहत्यादि-इह अस्मिन् प्रदेशे आसिष्ट उपविष्टा ११|' | 'इदम इश् | ५|३|३| इह | अशष्ट शयितवती । आसे: शीड- श्र लुङ् | सखेलं सलीलम् । इतः प्रदेशाद्गमत् गतवती । इत्थमेवंप्रका- रम् । मैथिल्याः स्मरन् । 'अधगिर्थदयेशां कण |२|३||५२ || इति कर्मणि षष्ठी | भरताप्रजो रामोऽग्लासत् ग्लानिं गतः । ग्लायतेर्लुङ् । 'यमरमनमातां सक् च |७|२|७३ || इति सगिटौ ॥ १२ ॥ इदं नक्तंतनं दाम पौष्पमेतद्दिवातनम् । शुचेवोद्वध्य शाखायां प्रग्लायति तयाविना ॥ १३ ॥ इदमित्यादि-नक्तंतनं निशाभवं इदं दाम पुष्पमाला पुनर्दिवातन दिवसभवम् । 'सायंचिरंप्राद्धेप्रगेऽव्ययेभ्यष्टथुटलौ तुद् च | ४ | ३|२३| • इति टयुटधुलौ तुट् च । पौष्पं पुष्पाणामिति तस्येदमित्यण् । शुचेव शोकेनेव । 'सम्पदादिभ्यः किप्' इति किप् । शाखायां वस्त्रादिनोद्वध्य | ● १ 'खेदानुकम्पासन्तोपविस्मयामन्त्रणे बत' इत्यमरः | २ सौमन्त्रिः लक्ष्मणः । ३ ‘अहो ही च विस्मये ।' इत्यमरोक्तेः । ४ हूं हुनाहरचटिके' इत्यादिप्रयोगदर्शनात् । ५ 'दशरथेत्यर्थः । ६ 'आस उपवेशने' लुङ् । ७ 'परिहासरू पखेला पूर्वमित्यर्थः । इदंक्रिया विशेषणम् |