पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्मः ] प्रकीर्णकाण्डम् । (१२७) अर्थात् सीतायाः शिवं प्रधानं कर्म सुगन दवान् इत्यकथितं कर्म । भ्राता लक्ष्मण: सर्व यथावत् स्थितं ब्रूते स्म उक्तवान् । सर्वमिति प्रधानं कर्म राममित्यकथितम् ॥ ८ ॥ संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम् । प्राणान् दुइन्निव ऽऽत्मानं शोकं चित्तमवारुधत् ॥ ९ ॥ - सदृश्ये त्यादि- रामः शरणं गृहं शून्यं संदृश्य दृष्ट्वा । शोकं चित्तम - वारुधत् चित्तं शोकं प्रावेशयत् । अन्तः शोकाकुलोऽनूहित्यर्थः । कीदृशः प्रियां जानकी वनं भिक्षमाणः 'यदि अश्वत्थ त्वया सीता दृष्टा तर्हि बोधय यदि गोपिता तो देहि, इत्येवं प्रातेवृक्षं याचमान इत्यर्थः । प्राणान् दुन्नित्र त्यजत्रिव | प्राणानिति प्रधानं कर्म आत्मानमित्यकथितम् । आत्मनः प्राणान् त्यजन्निवे ॥ ९ ॥ गता स्यादाचित्वाना कुनुमान्याश्रमद्रुमान् । आ यत्र तापसान् धर्म सुतीक्ष्णः शास्ति तत्र सा ॥ १०॥ गतेत्यादि - यत्र यत्मिस्तपावने सुतीक्ष्णो नाम ऋषि: धर्म शास्ति शिक्ष- यति । धर्ममिति प्रधानं कर्म, वापसानित्यकथितम् । तत्रें तपोवने गता स्यात् । सम्भावने लिङ् । 'आ' इति आकारो निपातः स्मरणे । किं कुर्वती कुसुमान्यवचिन्वाना | कुसुमानीति प्रधान कर्म आश्रमद्रुमानि- त्यथितम् । अवचिन्वानोव चिनोतेः कर्त्रभिनाये तङ् । दुयादि- दण्डको गतः ।। १० ।। इति दुहादिद्विकर्मकः । प्रकीर्णकानाह- आः कष्टं वत ही चित्रं हूँ मातर्देवतानि धिक् । हा पितः ! काऽसि हे सुभ्रु ! बहेव विललाप सः ॥ ११ ॥ आः कष्टमित्यादि-शोकेनाक्रान्तमना विलपन्नाह - आ: पीडायाम् । पितृ- वियोगपीडितः आः इत्याह । अस्माद्वयागन पिता प्राणांत्यक्तवानित्यभिप्रायः॥ कष्टमित्याह । कष्टं कृच्छ्रम् | भर्तृमरणादस्मद्वियोगाच्च मातुः कावत्थेत्यभिप्राये- -- १ 'शरणं गृहरक्षित्रोः' इत्यमरः । २ जनकनन्दिन्या रहितमिति भावः | ३ लाक्ष- णिकोऽयमर्थः । ४ अत्र सर्वत्प्रेक्षायाम् । ५ सुतीक्ष्णाश्रम इति वक्तव्यम् । ६ 'आस्तु स्यात्कोपपडियोः' इत्यमरोक्तेः ।'