पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १२६ ) भट्टिकाव्ये जयमङ्गलासमेते- [ षष्ठ:- -युःक्षयान्मृतां वा । स राम: शत्रुघ्नस्य सोदर्य भ्रातरम् ।' सोरायः |४|४| १०९।' आयान्तमागच्छन्तमारादैक्षत दृष्टवान् । ईक्षेर्लङि रूपम् ॥ ६ ॥ सीतां सौमित्रिणा त्यक्तां सधीचीं त्रस्नुमेकिकाम् | विज्ञायाऽमंस्त काकुत्स्थः क्षये क्षेमं सुदुर्लभम् ॥ ७ ॥ सीतामित्यादि-सौमित्ररे काकिनो दृष्टत्वानियतमनेन त्यक्तेति तां विज्ञाय ज्ञात्वा काकुत्स्थो रामः । क्षेये गृहे । क्षीयतेऽस्मिन्निति अधिकरणेऽच् । क्षेमं कल्याणम् । सुदुर्लभं सुदुःखेन लभ्यत इति । 'ईषद्दुः सुषु कृच्छाकृच्छ्रा- र्थेषु खलू | ३|३|१२६|' इति खल् । अमंस्त ज्ञातवान् । कथं क्षेये क्षेमं सुदुर्लभमिति माह- सधीची सहवारिणीं न कचिदेकाकिनीं तिष्ठन्तीम् । सहाश्वतीति 'ऋत्विगदधृस्रगदि गुष्णिगञ्चुयुजिक्रुचां च ३ | २ | ५९ इति किन् । 'सहस्य सप्रि: |६|३|९५॥ इत्यञ्च तो वप्रत्यये सहस्य सध्यादेशः । 'अञ्च तेचोपसंख्यानम्' इति ङोप् । 'अचः १६|४|१३८ । इत्यकारलोपः । 'चो | ६|३|१३८ ।' इति दीर्घः । कुतः त्रस्तुं त्रसनशीलाम् । क्रियाशब्दाङ् न भवति । एाके का मेकाकिनीम् 'असहायामित्यर्थः । लक्ष्मणेनापि त्यक्तत्वात् । 'एकादाकि निच्चासहा ये १५|३|५२|' इति चकारात्कन् । 'प्रत्ययस्थात् कात्पूर्वध्यात इदाप्यसुपः १७१३ | ४४ |' इतीत्वम् ॥ ७ ॥ ( एते प्रकीर्णका: ) अतः परं दुहादिः, इतो द्विकर्माधिकार:- सोऽपृच्छ लक्ष्मण सीतां याचमानः शिवं सुरान् । रामं यथास्थित सबै भ्राता बूते स्म विह्वलः ॥ ८ ॥ सोऽपृच्छदित्यादि- 'अकथितं च ११४१५१॥' इत्यत्र दुहियाचीत्या- दिश्लोकैस्थान् धातून प्रयुङ्क्त कविः । तत्र रामोऽपृच्छत् सीतामिति प्रधानं कर्म लक्ष्म गमित्य कथितं कर्म । याचमानः प्रार्थयमानः | शिवं कल्याणम् । - 65- १ लक्ष्मणमित्वर्वः 'समानोदर्य लोदर्थ सगर्थसहजाः समाः ।' इत्यमरः । 'निलयापचयो क्षयौ।' इत्यमर. | ३'दुड्याच्चदण्ड रुधिप्रच्छिचित्रशा सुजि मथुमुषा- म् । कर्म्मयुक्स्थाहकथितं तथा स्वाहवाम् ॥' इत्युक्तानित्यर्थः । ४ श्रेयसं शिवं भद्रम्' इत्यमरः ।