पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । ( १२५ ) 6 धारितवान् । 'कृञ्चानुप्रयुज्यते लिटि |३|१||४०।' इति प्रत्याहारग्रहणादस्तेर- प्यनुप्रयोगः । हीधातोर्गुणायादेशौ । ' डुभृञ् धारणपोषणयोः' उभयत्रा- पि पूर्ववदाम् वच्च । कथं न धारितवान् इत्याह । वैदेह्यां प्रसितः प्रसक्तः । भृशमत्यर्थम् ॥ ३॥ विदांकुर्वन्तु रामस्य वृत्तमित्यवदत् स्वकान् | रक्षांसि रक्षितुं सीतामाशिषच्च प्रयत्नवान् ॥ ४ ॥ विदांकुर्वन्त्वित्यादि - स्वकानात्मीयान् शुकसारणादीन् अवदुक्तवान् । किमित्याह --रामस्य वृत्तमनुष्ठितं किं तस्येहागन्तुमुद्यमोऽस्ति न वेति विदां- कुर्वन्तु । 'विदांकुर्वन्त्वित्यन्यतरस्याम् |३|१|४१|' इति निपातितम् । सीतां रक्षितुं रक्षांसि आशिषदादिष्टवान् । शास: ' सर्तिशास्त्यर्तिभ्यश्च | ३ | १ | ५६।' इत्यङ् । शास इदङ्हलोः |६|४|३४|| इति शासेरुपधाया इत्वं 'झा- सिवसिघसीनां च |८|३|६० || इति षत्वम् । प्रयत्नवान् प्रयत्नपरः 0 आमधिकारी गंतः ॥ ४ ॥ अथ प्रकीर्णश्लोकानाह- 6 रामोऽपि हतमारीचौ निवर्त्स्यन् खरनादिनः | क्रोष्टन् समगृणोत् क्रूरान् रसतोऽशुभशंसिनः ॥ ५ ॥ राम इत्यादि-हतमारीचो रामोऽपि निवर्त्स्यन् प्रत्यागमिष्यन् | तला- दिलक्षण इटि प्राप्ते 'न वृद्भ्यश्चतुर्भ्यः |७|२|५९|' इतीनिषेधः । क्रोष्टन् शृगालान् । रसतः शब्दायमानान् | समशृणोत् संश्रुतवान् । सकर्मकत्वात् ‘अतिश्रुदृशिभ्यश्चेतिवक्तव्यम् ।' इत्यात्मनेपदं न भवति । लङि रूपम् । क्रूरान् भीषणान् । यतः खरनादिनः खरवन्नदन्ति । ' कर्तपमाने |३|२|--- ७९ | १ इति णिनिः । अशुभशंसिनः अनिष्टसूचनशीलान् ॥ ५ ॥ आशङ्कमानो वैदेहीं खादितां निहतां मृताम् । स शत्रुघ्नस्य सोदयैं दूरादायान्तमैक्षत ॥ ६॥ आशङ्कमान इत्यादि — तथाविधा शुभश्रवणादाशङ्कमानो वितर्कयन् वैदेही किं खादितां निशाचरादिना | ततः निहतां त्यक्तप्राणाम् | अहो स्वयमेवा- १ 'तत्परे प्रसितासक्तौं' इत्यमरः ॥ २ राक्षसानिति शषः | ३ विदाङ्कुर्वन्तु जानन्तु गुप्ततया ज्ञात्वा मां बोधयन्तु चेति भावः । ४ कथञ्चिद्रामचारैश्चोरिता न स्यादिति मयि च यथाऽनुरक्ता स्यादिति समाहिततयोद्यम्य चेष्टितुमिति भावः ।