पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- षष्ठः सर्गः । अत्राधिकारस्यापरिसमाप्तत्त्रात्त मेवाममधिकृत्याह- ओषांचकार कामाग्निर्दशवक्रमहर्निशम् । विदांचकार वैदेही रामादन्यनिरुत्सुकाम् ॥ १ ॥ व्यः ओषांचकारेत्यादि-अथशब्दो वक्ष्यमाणतृतीय श्लोके यः सोऽत्र द्रष्ट- । अथ तस्मिन् सीतापरिग्रहे जाते कामाग्निः कामोऽभिरिव दश- चक्रं दशाननमोषांचकार ददाह । 'उप दाहे' । 'उपविदजागृभ्योऽन्य- तरस्याम्' |३|१|३८|' इत्याम् । अहर्निश अहश्च निशा च । 'सर्वो द्वन्द्वो विभाषैकवद्भवति' इत्येकवद्भावात् । 'कालाधव नोरत्यन्तसंयोगे | २।३१५१ इत्यत्यन्तसंयोगे द्वितीया । अह्नो नकारस्य 'रोऽसुपि । ८ । २ । ६९ । इति रत्वम् । कस्माद्ददाह इत्याह | रावणो वैदेहीमन्यनिरुत्सुकां रामादन्य- स्मिन् सर्वत्र निरभिलाषां विदांचकार अगुणत्वं विदेस्तथेति विद्रकारा- ·न्तनिपातनात् गुणाभावः ॥ १ ॥ प्रजागरांचकागरेरीहास्त्रनिशमादरात् । (१२४) [ षष्ट:- प्रविभयांचकाराऽसौ काकुत्स्थाद्भिशङ्कितः ॥ २ ॥ प्रजागरांचकारेत्यादि - अरे रामस्य ईहासु चेष्टासु । 'गुरोच हलः | ३ | ३।१०३।' इत्यकारः । आदरादादरेण प्रजागरांचकार जागरितवान् । शचित्रं- कीर्पितज्ञानपरो बभूवेत्यर्थः । पूर्ववदाम् | अनिशम् अविच्छेदेन । अनिश- मिति निशाक्रियाविच्छेदो नाम्ति यस्मिन् प्रजागरण इति । निशेति क्रिया- विच्छेदोपलक्षणम् । प्रायेण हि निशायां क्रियाणामप्रवर्तनम् । किमिति जागरितवानित्याह । काकुत्स्थादसौ प्रविभयांचकार प्रभीतवान्। 'भी- ह्रीभृहुवां श्ळुवच्च |३|१|३९|' इत्याम् । श्वको धातोर्गुणायादेशौ । अभि- शतिः किमयं करिष्यतीति ॥ २ ॥ न जियाञ्चकाराज्य सीतामभ्यर्थ्य तर्जितः । नाप्यूर्जी बिभरामास वैदेह्यां प्रसितो भृशम् ॥ ३ ॥ न जिहयाञ्चकारेत्यादि-सीतामभ्यर्थ्य याचित्वा न जिह्वयाञ्चकार न लज्जितः । वर्जितः भत्सितोऽपि तयैवेत्यर्थात् । नाप्यूज वलं विभरामास १ न निशालक्षणया निद्रेतरतो विरामो यत्र कर्म्मणि तद् यथा तथेत्यर्थः । 1