पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । न वा नैव । जान घसिभ्यामित्याधकृत्य 'वेनो डिस' इत्यौणादिक इक् । बाशब्द एवार्थे । पलाया चके पलायित: । 'उपसर्गस्यायती | ८|२|१९| इति लत्वम् । राक्षसच न दयांचक्रे न दयते स्म । पक्षिणं खल्वहं कथं व्यापादयामीत्यर्थः । किंतु निष्ठुरतयाऽऽहन्तुमुद्यत एवाभूदिति भावः । उभयत्रापि 'दयायासा |३|१|३७|' इत्याम् ॥ १०६ ।। उपासांचक्रिरे द्रष्टुं देवगन्धर्वकिन्नराः । छलेन पक्षौ लोलूपाञ्चके ऋव्यात् पतत्रिणः ॥ १०७ ॥ उपेत्यादि-देवगन्धर्वकिन्नरा द्रष्टुं 'युद्धं द्रक्ष्याम' इति उपासा चक्रिरे उपग- ताः । पूर्ववदाम् । ऋव्यात् रावणः । ऋव्यं मांसमन्तीति व्यात् । 'अदोन |३|२|६८|' इति विट् । पतत्रिणः पक्षिण: पक्षौ लौलूया- के अत्यर्थ लूनवान् । यङ्प्रत्ययान्तत्वादाम् । छलेन मायया प्रसा जेतुं न शक्यत इति । भल्लेनेति पाठान्तरम् ॥ १०७ ।। प्रलुठितमवनौ विलोक्य कृत्तं दशवदनः खचरोत्तमं प्रहृष्यन् । रथवरमधिरुह्य भीमधुर्ये स्वपुरमगात् पारगृह्य रामकान्ताम् ॥ १०८ ॥ प्रलुठित मित्यादि-खचरा: पक्षिण: । खे चरन्तीति अधिकरणे 'चरेष्टः |३|२॥५६॥ तेषामुत्तमं जटायुं कृत्तं छिन्नं लूनपक्षत्वात् । अवनौ भुवि प्रलुठितं विलोक्य प्रहृष्यन् हर्ष प्राप्नुवन् निवृत्तो विघ्नकारीति दशाननो रथवरं स्मरणात् प्राप्तं पुष्पकाख्यमारुह्य भी मधुर्य रामकान्तां सीतां तथैव परिगृह्य स्वपुरभंगात् गतवान् ॥ १०८ ॥ इति श्रीजयमङ्गलसूरिविरचितया जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्रीभट्टिकाव्ये द्वितीयेऽधिकारकाण्डे लक्षणरूपे पञ्चमः परिच्छेदः लक्ष्यरूपे कथान के सीताहरण: श्रीराम- प्रवासो नाम पञ्चमः सर्गश्च । १ 'राक्षसः कौणपः क्रव्यात् क्रव्यादोऽरूप आशरः । इत्यमरः । २ लुञ् छेदने इत्यतो लिटि 'धातोरेकाचो इलादेः क्रियासमभिहारे यङ् ३॥ १॥ २२॥ इति मृशार्थी यडू | ३ तेषूत्तममिति वाच्यम् 'न निर्धारणे २|२|१|' इति निर्धारणार्थायाः षष्ठया: समायनिषेधात् । ४ ' कृत्तं दातं दितं छितं बृक्णम्' इत्यमरः ।५ '६नाऽवनि, मेदिनी मही' इत्यमरः । ६ लङ्कापुरीमित्यर्थः ।