पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१२०) भट्टिकाव्ये जयमङलासमेते- सतामरुष्करं पक्षी वैरकारं नराशिनम् । हन्तुं कलहकारोऽसौ शब्दकार: पपात खम् ॥ १०० ।। सतामित्यादि - एवमुक्त्वा असौ जटायु: पक्षी खमाकाशं पपात पतितः । किमर्थ नराशिनं नरान् मनुष्यानश्नाति भक्षयतीत्येवंशीलम्, राक्षसमित्यर्थः । 'सुप्यजातौ णिनिस्ताच्छील्ये । ३ । २ । ७८ ।' इति णिनिः । हन्तुं हनिप्या- ·मीति । कीदृशं राक्षसं सतामरुष्करम् | धर्मे स्थितानां पीडाकरम् । अरुः- शब्द: पीडोपलक्षणपरः । 'दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुना- न्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्र सङ्ख्याजङ्घावाह्नहर्यत्तद्धनुररुप्पु २ । २१ । ' इति टः । वैरकारं वैरकरणशीलम् कलहकार : पक्षी कलयितुमनुकूलः । अनयो: ' न शब्दश्लोककलहगाथावर चाटुसूत्र मन्त्र- न पदेषु ।३।२। २३ ।' इति टे प्रतिषिद्धेऽणेव भवति । कर्मण्यणः प्राप्तिर- स्तीति टाधिकार उदाहृतः । कियखं पपात | यावति दूरे शब्दपातस्ता- •वत्वमिति ।। १०० ।। | ३ | [ पञ्चमः - ॥ टाधिकारः समाप्तः ॥ इतः पर पुनः प्रकीर्णकश्लोकानाह-- धुन्वन् सर्वपथनं खे बितानं पक्षयोरसौ । मांसशोणितसंदर्श तुण्डघातमयुध्यत ॥ १०१ ॥ धुन्वन्नित्यादि-असौ जटायु पक्षी अयुध्यत युध्यते स्म । युधदैवा- दिकस्य लङि रूपम् । तुण्डघातमिति क्रियाविशेषणम् | तुण्डेन चळच्चा थातो हननं यस्मिन् युद्ध इति । 'करणे हनः | ३ | ४ | ३७ | इति न णमुल 'कषादिषु यथाविध्यनुप्रयोगः | ३ | ४ । ४६ ।' इति वचनात् अहिंसार्थ- त्वाञ्च तदारम्भस्य यथा पाघातं भूमिं हन्तीति ।: 'हिंसार्थानां च समान कर्म- काणाम् । ३ । ४ । ४८ ।' इत्यनेनापि न भवति समानकर्मकताभावात् । अकर्मकत्वाद्युधेः । तेन भावे घञ | धुन्वन् कम्पयन् खे आकाशे पक्षयो- विज्ञानम् ।सर्वपथीन 'सर्वः पन्था इति' 'पूर्वकाले कसर्व जरत्पुराणनव- केवला: समानाधिकरणेन | २|१|४९|| इति समासः । 'ऋक्पूरव्धूःपथामानक्षे १५ । ४ । ७४ ।' इति समासान्तोऽकारः । सर्वपथान् व्याप्नोतीति 'तत्सर्वादेः १ ( पीडाकरो व्रणकरोऽरुष्करी मर्म्मघातकः ।) इति गोपालः | २ 'अनन्तं सुरकर्म खम्' इत्यमरः । ३ अन्न परिकरः ।