पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग :] प्रकीर्णकाण्डम् । ममायतो भूत्वा मा गा इत्यर्थः । पूर्व सरतीति 'पूर्वे कर्तरि | ३ | २ | १९ ।' इति टः । यतस्त्वमप्रेचरो जघेन्यानाम् । अग्रेसरतीति 'पुरोऽग्रतोऽप्रेषुसतेः । ३ । २ । १८ ।' इति ट: । जघन्य इति 'शाखादिभ्यो यः |५|३|१०३।१ इतीवायें यः । पापनां प्रथमस्त्वम् । कुतः आदायचरो बने । आदाय चरतीति 'भिक्षासेनादायेषु च |३|२|१७|| वने चरन्तीति वनेचराः । आधि- करणे चरेष्टः । तेषामग्र्याः प्रधाना ऋषयः । तानादाय चरसि भक्षयसि । कर्माणि षष्ठी ॥ १७ ॥ यशस्करसमाचारं ख्यातं भुवि दयाकरम् । पितुर्वाक्यकरं रामं धिक् त्वां दुन्वन्तमत्रपम् ॥ ९८ ॥ यशस्करेत्यादि — रामं दुन्वन्तमुपतापयन्तमत्रपं निर्लज्ज धिक् त्वाम् । न । 'टुदु उपतापे' इत्यस्य सौवादिकस्य शतार 'हुश्नुवो सार्वधातु । ६ । ४ । ८७ ।' इति यणादेशे रूपम् । कीदृशं रामम् | यशस्करसमाचा -रम् | समाचरणं समाचार : चरितं भावे घञ् । यशस्करोतीति यशस्करः । 'कृञो हेतुताच्छील्यानुलोम्येषु |३|२|२०|| इति ट: । 'विसर्जनीयस्य सः |८|३|३४|’ | यशस्करणहेतुभूतः समाचारो यस्य । ख्यातं भुवि प्रसिद्धं दयाकरं करुणाकरणशीलम् । ताच्छील्ये टः । पितुर्वाक्यकरं पितुर्वचना- नुष्ठाने अनुकूलम् । आनुलोम्ये टः ॥ ९८ ॥ अहमन्तकरो नूनं ध्वान्तस्येव दिवाकरः । + 6 , तंव राक्षस रामस्य नेयः कर्मकरोपमः ॥ ९९ ॥ अहमित्यादि-हे राक्षस, अहं तव नूनमवश्यमन्तकरः विनाशयिता | कीदृशः - रामस्य नेयो वश्यः । ' अचो यत् । ३ । १ ९७ १ कर्मको पमः भृतकतुल्यः । ‘ कर्मणि भृतौ । ३ । २ | २२' इति टः । ध्वान्तस्येव दिवाकरः । यथान्धकारस्यान्तकरो दिवाकरः सूर्यः तथा । अन्तकरदिवाकरी | 'दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहु नान्दीकिंलिपिलिविबलिभक्तिकर्तृ--- चित्रक्षेत्रसङ्ख्याजधाबाहयत्तद्धनुरुषु | ३ | २ | २१ ।। इति टप्रत्य यान्तौ । एवमुक्त्वा खं गगनं पपातेति सम्बन्धः ॥ ९९ ॥ १ पामराणामित्यर्थः । 'जघन्योऽन्त्योऽधमेऽपि च ।' इत्यमरः | २ पाना पापकारिणामित्यर्थः । अत्राआदित्वादच् | ३ ' प्रभाकरदिवाकराः' इत्यमरः