( ११८) मट्टिकाव्ये जयमङ्गलास मेवे- पञ्चमः- त्रस्यन्तीमित्यादि- त्रस्यन्तीं च तां तद्रूपदर्शनात् समादाय गृहीत्वा यातो गच्छतो रावणात् । यातेः शतरं पञ्चम्या रूपम् । किं यातो रात्रिश्चरालयं लङ्काम् । रात्री चरतीति 'चरेष्टः | ३|२|१६|' | 'रात्रेः कृति विभाषा | ६|३| ७२ |' इति मुम् । तस्माद्रावणाद्यद्भयं ततो भयात् तूष्णीम्भूय | 'तूष्णीमि भुवः | ३|४|६३ ।। इति 'क्त्वा च |२|२|२२|' इति समासे ल्यबादेशः । आसांचक्रिरे आसिताः । 'दया |३|१||३७ | इत्याम् । मृगपक्षिण: मृगाश्च पक्षिणश्च । समानजातीयानामिति वचनादेकवद्भावोऽत्र न भवति ॥ ९५ i Pave उच्चैरारस्यमानां तां कृपणां रामलक्ष्मणौ । जटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन् ॥ ९६ ॥ ( इति प्रकीर्णकाण्डं प्रथमम् ) उच्चैरित्यादि--तां सीतां जटायुः पक्षीन्द्रः । रावणं परुषं निष्ठुरं वदन् ग्राप प्राप्तवान् । कीदृशीम् | उच्चैरारस्यमानाम् । 'हा राम, हा लक्ष्मण ' इति शब्दौ (द्वौ) उच्चैर्महता ध्वनिना पुनः पुना रसन्तीमित्यर्थः । रसेः शब्दकर्मकत्वात् धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ३|१|२२' इति क्रियासमभिहारे यङ्ग, ततः शानच् । कृपणां दीनाम् ॥ ९६ ॥ ( इति प्रकीर्णकाण्डम् ) अतः परमधिकारकाण्डम् । तत्र प्रथमं टाधिकारः - इतः परमधिकार काण्डमुच्यते । यत्र प्राधान्येनैकैकमधिकृत्य लक्षणं प्रद- शितं तदधिकारकाण्डम् । शेषलक्षणेषु प्रकीर्णकमेव द्रष्टव्यम् । एवं च कृत्वा अन्तरान्तरा तत्सूचनार्थ प्रकीर्णकलोकाभिधानम् । अत्र च काण्डे निर्दिष्टसंज्ञकाश्चत्वारः परिच्छेदाः । तत्र प्रथमे आद्यं टप्रत्ययमधिकृत्यो- च्यते, सर्वार्थस्य विवक्षितस्यापरिसमाप्तत्वात् तमेवाभिसन्धायाह- द्विषन् वने चराउयाणां त्वमादाय चरो बने । अग्रेसरो जघन्यानां मा भूः पूर्वसरो मम ॥ ९७ ॥ द्विषन्नित्यादि-एव च कृत्वा मिश्रक उच्यते द्वयोरप्यत्र प्राधान्येन विव- तत्वात् । परुपं वदन् । कीदृशम् । हे द्विषन् मा भूः पूर्वसरो ममेति । . १ अत्यन्तं विङपन्तीम् । 'रस शब्दे' इत्यस्यदें] रूपम् । २ शन्नो इत्यर्थः । 'रिप बैरिसपत्नारिद्विषद्द्वेषणदुर्हदः ।' इत्यमरः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१५६
दिखावट