पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । मा स्म अग्रहिणी भीरु गन्तुमुत्साहिनी भव | उद्भासिनी च भूत्वा मे वक्षःसमर्दिनी भव ॥ ९३ ॥ मा स्मेत्यादि — हे भीरु मा स्म भूहिणी प्रतिकूला मा भूः । न यास्या- मीत्यमुमर्थं गृह्णामीति कृत्वा । 'स्मोत्तरे लङ् च । ३ । ३ । १७६ ।” इति चकारात् लुङ् । गन्तुमुत्साहिनी उद्युक्ता भव । 'शकवृपज्ञाग्लाघट- रभलभृक्रमसहाहा॑स्त्यर्थेषु तुमुन् । ३ । ४ । ६५ ।। इति तुमुन् । उत्साहिनी- ति सहोपपदत्वात् । ततश्चालंकृतशरीरत्वादुद्भासिनी शोभमाना भूत्वा नो- इस्माकं वक्षःसंमर्दिनी स्तनाभ्यामुर:स्थलस्य पीडिका भव । ग्रहोत्सा- होद्भाससंमर्दानां ग्रहादिषु पठितत्वात् कर्तरि णिनिः । 'ऋन्नेभ्यो ङीप् १४।१॥५॥ ॥ ९३ ॥ तां प्रातिकूलिका मत्वा जिहीर्षुर्भीमविग्रहः । बाहूपपीडमाश्लिष्य जगाहे द्यां निशाचरः ॥ ९४ ॥ (११७) तामित्यादि -- यदैवमभिधीयमाना न प्रतिपन्ना तदा तां प्रातिकूलिक प्रतिकूलवर्तिनी मत्वा ज्ञात्वा । 'ओजःसहोम्भसा वर्तते' इत्यधिकृत्य प्रति- कुलं वर्तत इत्यास्मिन्नर्थे 'तत्प्रत्यनुपूर्वमीपलोमकूलम् | १४|४|२८|' इति ठकू | जिहीर्षुः हर्तुमिच्छुः | भीमविग्रहः भीपणशरीरः । दृष्टराक्षसशरीररूपः । सुखन ह्रियत इति वाहूपपीडमालिप्य वाहुभिरुपपीडथ। 'सप्तम्यां चोप- पीडरुधकर्षः । ३।४।४९' इति चकारात् तृतीयान्त उपपदे णमुळ् । जगाहे रथेनोत्पत्य द्यामाकाशं निशाचरो गाहते स्म । दिवशब्दसमानार्थो द्योशब्द औणादिकः । ‘गमेर्डोः' इत्यौणादिक 'उणादयो बहुलम् |३|३|१' इति बहु- लग्रहणाद् धुतेरपि डोः' इति वचनात् डो: । 'औतोऽम्शसोः ||६|११९३ इत्यात्वम् । कालापिनस्तु दिवशब्दादेव व्युत्पादयितुं सूत्रमधीयते वाम्येति । दिवः अमि विकल्पेनाकारादेश इति ॥ ९४ ॥ त्रस्यन्तीं तां समादाय यातो रात्रिंचराऽऽलयम् । तूष्णींभय भयादासांचक्रिरे मृगपक्षिणः ॥ ९५ ॥ १ 'सुन्दरि' इत्यर्थः । 'विशेषास्त्वङ्गना भीरुः कामिनी बामलोचनाः ।' २ अभि धीयमाना । उच्यमानेत्यर्थः । ३ न प्रतिपन्ना नानुकूलतां प्राप्तेत्यर्थः । ४ आकाशमेव पन्थानमकरोदिति भावः ।