पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेत- [ पञ्चम:- संगच्छ पोस्नि ! स्त्रैणं मां युवानं तरुणी शुभे ! राघवः प्रोष्यपापीयान् जाहि तम किञ्चनम् ॥ ९१ ॥ संगच्छेत्यादि हे पौस्नेि पुमांसमर्हति तांद्वेता वा । अयें हितायें वा 'श्रीपुंसाभ्यां नस्तनौ भवनातू |५|११८७१' स्त्रीप्रत्यये 'नबस्ननी- कक्ख्युंस्तरुणतलुनानामुपसंख्यानम्' इति । मां युवानं तरुणं संगच्छ अङ्गीकुरु । गमेः प्रार्थनायां लोट् । 'इषुगमियमां छः । ७ ।३।७७ | इति छत्वम् । 'समो गम्वृच्छिभ्याम् ||१|३|२९|| इति तङ् न भवति सकर्मकत्वात् । विशेषतः स्त्रैण स्त्रियै हितमर्हन्तं वा । पूर्ववत्प्रत्ययः ! तरुणी युवती सती शुभे कल्याणि शोभत इति 'इगुपधज्ञाप्रीकिरः कः ३|१||१३५|' इति इगुपधलक्षणः कः । ममापि तादृशो भर्तास्तीति चे' दाह राघव: प्रोप्यपापयानिति । पापशब्दात् 'विन्मतांर्लुक् |५|३|६५/- इति ईयसुन लुक्च मतुपः । प्रोप्यपापीयौनिति 'मयूरव्यंसकादयश्च ॥ २॥१॥ ७२।' इति समासः देशान्तरं यात्वा पापवत्तरः । स्वदेशत्यागदिना दुष्कृतपरिपाकभोक्तृत्वमिति यथोक्तम् । अत एव तमकिचनं दरिद्रम् | न विद्यते किंचन यस्येति । 'सर्वनामाव्ययसंज्ञाया उपसर्जनप्रतिषेधः इति वचनान्नाव्ययसंज्ञा । तेन न विभक्तिलोपः । जहीहि यज । ईत्व स्य 'जहातेश्च |६|४|११६।' इति वा वचनाद्विकल्पः ॥ ९१ ।। अनीतपिवतीयन्ती प्रसिता स्मरकर्मणि ।. वशेकृत्य दशग्रीवं मोदस्व वरमन्दिरे ॥ ९२ ॥ अश्नीतेत्यादि-अनीतपिवतेति 'मयूरव्यंसकादयश्च । २१११७२१॥ इति व्यंसकादित्वात् समासः। तत्र हि 'आख्यातमाख्यातेन क्रियासातत्ये' इति पठ्यते । सततमश्रीत पिबतेत्येवं भृत्यजनानादेष्टमिच्छतीति 'सुप आत्मनः क्यच् । ३१११८|' अनीतपिवतीयन्ती । प्रसिता स्मरकर्माणि सुरतव्यापारे आ- धिक्येन प्रवृत्ता कामव्यापारेऽनुरतेत्यर्थः 'प्रसितोत्सुकाभ्यां तृतीया च |२| ३१४४ | इति चकारात् सप्तमी । वशेकृत्यानुवर्तिनं दशग्रीव कृत्वा |६| 'साक्षात्प्रभृतीनि च । १४७४ | इति गतिसंज्ञा | मोदस्व हर्ष जनयं वर मन्दिरे श्रेष्ठगृहे सुरतोचितसर्वोपकरणसम्पन्ने इत्यर्थः । स्थिता ॥ ९२ ।। १ एतेन पुरुषसम्बन्धमन्तरा तस्या अवस्थानायोग्यत्वं सूचितम् । २ एतेन स्वात्मनः स्त्रीभोगक्षमत्वं सम्भावितम् । ३ इदं परलोकदृष्ट्या रामस्य त्याज्यत्वं सूचयितुम् । इदमेतल्लोकदृष्ट्या रामस्य त्याज्यत्वं सस्भावयितुम् | ५ अत्र परि- करोऽलङ्कारः स्पष्टः, 'अलङ्कारः परिकरः साभिप्राये विशेषणे' इत्यभियुक्तोक्ते । ६ हृष्टा मवेत्यर्थ इति भावः, मोदेरकर्मकस्यात् । यद्वाऽन्तर्भावितणिजन्तत्वात्तथावचनम् । ● अत्रापि परिकरोऽलङ्कारः ।