पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । ( १२१ ) पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति । ५ । २ । ७ ।' इति खः । मांसशोणितसन्दर्श कार्येन मांसं शोणितं च दृष्ट्वा । 'कर्मणि दृशिविदोः साकल्ये | ३ | ४।२९ ।। इति णमुद्र । 'अमैवाव्ययेन | २ | २ | २० ।। इति समासः ॥ १०१ ।। न बिभाय न जिहाय न चक्काम न विव्यथे | आम्नानो विध्यमानो वा रणान्निववृते न च ॥ १०२ ॥ नेत्यादि-पक्षी जटायुरिति प्रकृतम् । आन्नानः आहत इति प्रहरन्नित्यर्थः । 'आङो यमहनः | १||३|२०|' इति तङ् | अत एत्र शानच | न बिभाय न भीतः। तस्मान्न जिह्वाय न लज्जितः । सम्यङ् मया न हत इति न चक्लाम न क्लान्तः । न विव्यये । 'व्यथो लिटि । ७ । ४ । ६८ ।' इति सम्प्रसारणम् । जितश्रम- त्वात् । विध्यमानो वा । वाशव्दश्चार्थे । परेण हन्यमानश्च न विव्यथे न पीडां भेजे । सत्त्वाधिकत्वात् । रणाच्च न निववृते न निवृत्तः, अभनोत्साह- त्वात् ।। १०२ ॥ पिशाचमुखधौरेयं सच्छत्रकवचं रथम् | युधि कद्रथवद्गीमं बभञ्ज ध्वजशालिनम् ॥ १०३ ॥ पिशाचेत्यादि-युधि समामे पक्षी रथं बभञ्ज, भगवान् | तस्य पुष्पका- दन्यत्वात् । तथा हि कद्रथवत् कुत्सितरथमित्र | रथवयोश्च | ६ | ३ | १०२ ।। इति कदादेशः । धुरं वहन्ति धौरेया अश्वाः । 'धुरो यड्ढकौ । ४ । ४ । ७७ । इति ढक् । पिशाचस्येर्नै मुखं येषां ते धौरेया यत्र रथे तं पिशाचमुखधौरेयम् । सच्छोमनं छत्रं कवचं च यस्मिन् | तं भीमं भयानकं तथा धुर्यत्वात् । ध्वज- शालिनं ध्वजवन्तम् । शालिन्शब्दः किन्प्रत्ययान्तस्तद्वन्तमाह | अन्यस्त्वाह | ध्वजेन शालितुं लापयितुं शलिमस्येति णिनिः । अनेकार्थत्वाद्धातूनामिति || ते प्रकीर्णकाः ॥ १०३ ॥ अतः परं आमधिकारः । इतः प्रभृत्याममधिकृत्याह-- संत्रासयाञ्चकारारि सुरान् पिप्राय पश्यतः | स त्याजयाञ्चकाराज्थ सीतां विंशतिबाहुना ॥ १०४ ॥ १ अत्र स्वभावोक्तिरलङ्कारः | २ अत्र दीपकम् | ३ 'धुर्वहे धुर्यधौरेयधुराणाः सधुरन्धराः ।' इत्यमरः । ४ अन्न व्यधिकरणो बहुव्रीहिः । ५ भीमं भयङ्कर- मित्यर्थः । 'घोरं भीमं भयानकम्' इत्यमरः । ६ शालयितुमिति वाच्यम् ।