पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेत - ११४ ) मत्पराक्रम संक्षिप्त राज्यभोगपरिच्छदः । युक्तं ममैव कि बक्तुं दरिद्राति यथा हरिः ॥ ८६ ॥ [पञ्चमः- मत्परेत्यादि -- राज्यभोग एव परिच्छदो इस्त्यश्वादिरूपराज हेमुपकर- - णम् स मत्पराक्रमेण सक्षिप्तोऽपहृतो यस्य हरेरिन्द्रस्य स यथा दरि द्राति निरर्थको भवति तन्ममैव किं वक्तुं युक्तमात्मगुणवादस्य लज्जाकरत्वात् दरिद्रातेरादादिकत्वाच्छपो लुक् ॥ ८६ ॥ निर्लङ्को विमदः स्वामी धनानां हृतपुष्पकः । संगच्छ पौंस्नि स्त्रैणं मां युवानं तरुणी शुभे ! ॥ अध्यास्तेऽन्तगिरं यस्मात् कस्तन्नावति कारणम् ॥ ८७ ॥ निर्लङ्क इत्यादि — यस्मात्कारणात् धनानां स्वामी धनदः । अन्तर्गिरम- ध्यास्ते अध्यासितवान् । गिरे: कैलासस्यान्तर्मध्ये | विभक्त्यर्थे 'अव्ययं विभक्तिसमीप - २ । १ | ६ | इत्यादिनाऽत्र्ययोभावः । 'गिरश्च सेनकस्य । ५।४। ११२ ।' इति टच् । 'अधि शीङ्स्थाऽऽसां कर्म । १ । ४ । ४६ ।' इति कर्मसंज्ञा । तेन 'तृतीयासतम्योर्बहुलम् । २ । ४ । ८४ ।' इत्य- Fभावो न भवति । 'नांव्ययीभावादतोऽम् |२|४|८३ | इत्यमेव भवति । तत्कारणं मम पराक्रमं मां वा को नावेति न जानाति । कीदृशः । निर्लङ्क: लङ्कातो निष्क्रान्तः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासः | 'एकविभक्ति' चापूर्वनिपाते | १ | २ | ४४ ।' इत्युपस जनसंज्ञायां ह्रस्वत्वम् | हृतपृष्पक: हृतम् आच्छिन्नं पुष्पकाख्यं विमानं यस्य । अत एव विनोऽ- पेतदर्पः । लङ्का पुष्पकं च धनदस्यासीत् तदाच्छित्त्वा अनेन गृहीत- मिति ।। ८७ ।। मिन्ननौक इव ध्यायन् मत्तो विभ्यद् यमः स्वयम् | कृष्णिमानं दधानेन मुखेनाऽऽस्ते निरूद्यातेः ॥ ८८ ॥ भिन्नत्यादि स्वयं साक्षान्मत्तो विभ्यत् त्रस्यन् यमो वैलक्षग्यात् मुखेन कृष्णिनानं कृष्णवर्णत्त्रम् । 'वणेदृढादिभ्यश्च |५|१|१२३।' इझते च कारादिमानेच। दधातन धारयता । 'इन्थम्भूतलक्षण २।३।२१' इति तृतीया । निरुद्यतिः निरुद्यमः आस्त । उत्पूर्वाधमः त्रियां क्तिन् । ३।३।९४ | इति भावकि अनुगनिकलोपः । J १ निर्धनो भवति निर्धनवदकर्म्मण्यो भवतीति वक्तव्यम् ।