पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् | (११३ ) स्मैपदी । क्रोधादेव कषायाक्षेः । 'बहुव्रीहौ सक्थ्यक्षणोःस्वाङ्गाषच | ५| ४ | ११३ ।' इति षच् । स्यन्नैः सृतैः स्वेदकणैरुल्बणः उद्भटः व्याप्तः इत्यर्थः । स्यन्देर्निंष्ठायां रूपम् । संदशितमान्तरमन्तर्गतमाकृतमभिप्रायो येन स एवंविधः ॥ ८३ ॥ कृते का निष्ठिनेयस्य ज्यौष्ठिनेयं विवासितम् | को नग्नमुषित प्रख्यं बहु मन्येत राघवम् ॥ ८४ ॥ 1 कृत इत्यादि - कनिष्ठाया अपत्यं ब्येष्ठाया अपत्यमिति 'स्त्रीभ्यो ढक् । ४। १ । १२० ।' 'कल्याण्यादीनामिङ् ।४।१ । १२६ । तयोः कल्या- ण्यादिषु पठितत्वात् । कनिष्ठासुतस्य भरतस्य कृते निमित्ते । ज्येष्ठायाः सुतः निरुपयोगितया विवासितः विसर्जितः । विपूर्वस्य वसतेर्हेतुमण्ण्यन्तस्या निष्ठायां रूपम् । तं नग्नमुषितप्रख्यं यथा कश्चिन्मुषितो नग्नो भवति तद्वद् भूतम् ।' पूर्वका लैक सर्व जरत्पुराणनवकेवळा: समानाधिकरणेन । २ ।१।४९ । इति समासः । तयोः पूर्वापरकालत्वात् । 'राजदन्तादिषु परम् | २ | २ | ३१| इति परनिपातः । ईदृशं राघवं को बहु मन्येत, घेत नैवेत्यर्थः ॥ ८४ ॥ , राक्षसान् वटुयज्ञेषु पिण्डीशूरान् निरस्तवान् | यद्यसौ कूपमाण्डूकि ! तवैतावति कः स्मयः ॥ ८५ ॥ राक्षसानित्यादि – अध्वरेष्विष्टिनामित्यस्योत्तर माह । यद्यसौ राक्षसान् पिण्डशिरान् पिण्डयामेव शूरान् | भोजने एव शून् । 'पात्रेसमितादयश्च । २.।१ । ४८ ।' इति समासः । वटुयज्ञेषु कुब्राह्मणयज्ञेषु । निरस्तवान् तिर- स्कृतवान् । 'निष्पूर्वादसुक्षेपणे क्तवतुः । हे कूपमाण्डूकि कूपे माण्डूकीव पूर्ववत् ‘पात्रेसमितादयञ्च | २ | १ | ४ |' इत्यनेन समास: । 'ढक् च मण्डूकात् । ४ । १ । ११९ ।' इति चकारादण् । 'तस्यापत्यम् । ४ । १ । ९२ ।' इत्यपत्ये- थें वाऽण् । एतावति स्वल्पे वस्तुनि तव कः स्मयः विस्मयः ? अपि तु न त्वया विस्मयः कर्त्तु युक्त इत्यर्थः ॥ ८५ ॥ मत्परा इति वक्तुमित्याह -- त्वया स्मयः कर्त्तु युक्तः । तत्रापि न मया युक्तम् १ क्रोवे हि नेत्ररक्तिमा जायते तदतिशये पुनः कषायत्वम् । गाढो रक्तिम कषाय इति प्रोच्यते । 'निर्यासेऽपि कषायः' इत्यमरः । यद्वाऽत्र कषशब्दः शोणवाचक एव 'कषायो रंसभेदेऽपि निर्यासेऽपि विलेपने । अङ्गरागे च न स्त्री स्थात् सुरभो लोहिते त्रिपु ।' इति मेदिनी ।