पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(११२) भट्टिकाव्ये जयमङ्गलास मेते- दयः कृतादिभिः । २ । १ । ५९ ।' इत्ययं विषयः । पतत्रिभिः जुष्टानि परिवृतानि ॥ ८० ।। [ पञ्चमः- क्रोष्टुभिश्च दीव्यमानं शितान् बाणानस्यमानं महागदाः | - निघ्नानं शात्रवान् रामं कथं त्वं नाऽवगच्छसि ॥ ८१ ।। दीव्येत्यादि — शितांस्तीक्ष्णान् बाणान् । दीव्यमानं क्षेप्तुं शक्तं तच्छीलं वा । अनेकार्थत्वाद्धातूनां दिवेः 'ताच्छील्यवयोवचनशक्तिषु चानश् । ३ । । २ । १२९ । ' इति चानश् । 'दिवादिभ्यः श्यन् | ३|१|६९ | इति श्यन् । यद्वा शत्रूणामिमे समूहास्तानिति भावः । 'तस्येदम् ।५ । ३ । १२०|' इत्यण् । महा- गदाः अस्यमानं क्षेतुं शक्तं तच्छीलं वा । पूर्ववच्चानश् । शात्रवान् शत्रून् । ‘प्रज्ञादिभ्यश्च । ५ । ४ । ३८ ।' इत्यण् । निनानं हन्तुं शक्तं तच्छीलं वा । पूर्ववत् प्रत्ययः । हन्तेः ‘गमहन - | ६ । ४ । ९८ ।' इत्यादिनोपधालोपः । ‘हो ह॒न्तेणिन्नेषु । ७ । ३ । ५४ ।' इति कुत्वम् । एवंविधं रामं कथं नावगच्छसि । तेन कर्मणा सर्वलोकविदितत्वादिति भावः ॥ ८१ ॥ 15 भ्रातरि न्यस्य यातो मां मृगाविन् मृगयामसौ । एषितुं प्रेषितो यातो मया तस्याऽनुजो वनम् ॥ ८२ ॥ भ्रातरीत्यादि – यद्येवं कासावित्याह । असौ रामो मां भ्रातरि न्यस्य अर्प- यित्वा मृगयामाखेटकं यातः । मृगेः स्वार्थिको णिच् । अदन्तत्वाच्च गुणो न भवति । तदन्तात् 'कृनः श च । ३ | ३ | १००।' इत्यधिकृत्य 'परि- चर्यापरिसर्यामृगयाटाट थानामुपसंख्यानम्' इति भावे शप्रत्ययः, यक्, अल्लो- पाभावश्च । ततः परम् 'अजाद्यतष्टाप् । ४ । १ । ४० । इति टापू । मृगान्वि ध्यतीति मृगावित्। 'नहिवृतिवृषिव्यधिरुचिसहितनिषु को । ९ ।३।११९।५ तः । सौातेति चेदाह । तस्यानुजः कनिष्ठो मया प्रेषितः सन् तम् । अनुपजायत इति । 'अन्येभ्योऽपि दृश्यते |३|३|१३० | १ इति जनेर्ड: । अकर्मण्युक्तमकर्मण्यपि भवति । किमर्थम्प्रेषितुम् । तमेव ज्ञातुम् । 'इप गतौ' इत्यस्य तुमुनि पर इदं रूपम् । ज्ञानार्थत्वात् । प्रेषित इति तस्यैव रूपम् || ८२ ॥ अथाऽऽयस्यन् कषायाऽक्षः स्यन्नस्वेदकणोल्वणः । संदर्शिताऽऽन्तराऽऽकूतस्तामवादीद्दशाननः ॥ ८३ ॥ अथेत्यादि- -- -अथैवमुक्तो जानक्या दशाननस्तामवादीत् उक्तवान् । आय- स्यन् क्रोधाविष्टत्वात् शरीरं खेदयन् । 'यसु प्रयत्ने' इति देवादिकः पर- १ शृगालैौरित्यर्थःः । 'शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ।' इत्यमरः । २ भृगा- विव्याधः । ३ सर्वेषां गत्यर्थानां ज्ञानार्थकताङ्गीकारात् ।