पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकीर्णकाण्डम् । निहन्ता वैरकाराणां सतां बहुकरः सदा । पारश्वविकरामस्य शक्तेरन्तकरो रणे ॥ ७८ ॥ निहन्तेत्यादि--वैरकाराणां शत्रूणाम् । वैरपूर्वात् कृञः 'न शब्दश्लोक- |३|२|२३|' इत्यादिना टे प्रतिषिद्धे अणेव भवति । निहन्तेति तृजन्तस्य प्रयोगः | • तत्र कर्माण षष्ठी । सतां धर्मे स्थितानां बहुकर: बहुकार्य करोतीति । 'दिवा- विभा–|३|२|२१|' इत्यादिना ट: । स्त्रीविवक्षायां तु 'किंयत्तद्वहुषु' इत्यादिना करोतेरच् । आइपरयो: 'खनिशुभ्यां डिञ्च' इत्यौणादिकः कुः | परशुशब्दः । तत्पर्याय एवाव्युत्पन्नः परश्वधशब्दः । स प्रहरणं यस्य 'परश्वधाट्टञ्च ॥४॥४॥ ५८।' तस्य परशुरामस्य सम्बन्धिन्याः शक्तेः सामर्थ्यस्यान्तकरो विनाश- यिता अन्तं करोतीति पूर्ववः । रणे संग्रामे ॥ ७८ ॥ अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदा । पितुर्नियोगाद्वाजत्वं हित्वा योऽभ्यागमनम् ॥ ७९ ॥ सर्गः ] ( १११) अध्वरेग्वित्यादि-इष्टमेभिरिति इष्टिनो यज्वानः | 'इष्टादिभ्यश्च |५|२| ८८ |' इतीनिः । किमिष्टवताम् - अध्वरान् कर्माणि तत्र 'क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्' इति कर्मणि सप्तमी । अध्वरेष्विष्टिनामिति कर्मणि षष्ठी कृद्योगे | पाता रक्षिता । पूर्ती कर्मसु सर्वदा | पृणोतेर्निष्ठार्या 'उदोष्ठ्यपूर्वस्य १७७१।१०२।' इत्युत्वम् । 'न ध्याख्यापूमूच्छिमदाम् |८|२|५७|' इति निष्ठा- नत्वप्रतिषेधः । पूर्तमनेनेति पूर्ववदिनिः । किं पूर्तमिति सर्वदा श्राद्धादिकर्मणि । पूर्ववत्सप्तमी । स राजत्वं राज्यम् । हित्वा त्यक्त्वा | वनमभ्यागमत् । आभि- मुख्येन आगतवान् । लुङ् | चलेरङि रूपम् । पितुर्नियोगात् । नायोग्यत्वात् । स मे भर्तेति योज्यम् ।। ७९ ।। पतन्त्रिक्रोष्टुजुष्टानि रक्षांसि भयदे वने । यस्य बाणनिकृत्तानि श्रेणीभूतानि शेरते ॥ ८० ॥ पतन्त्रीत्यादि — यस्य वाणैनिकृत्तानि छिन्नानि रक्षांसि भयदे भयवर्धके बने दीर्घनिद्रया स्वपन्ति स मम भर्तेति योज्यम् । शेरत इति 'शीडो रुट् । ७ । १ । ६ ।' । क्रीदृशानि | अश्रेणयः श्रेणयो भूतानि । 'ऊर्यादि- च्चिडाचश्च । १ । ४ । ६१ ।' इति च्व्यन्तानां 'कुतिप्रादयः | २ | २|१८| इति समासः । 'च्चौ च । ७ । ४ । २६ ।। इति दीर्घः । च्व्यर्थानां तु ' श्रेण्या- र १ शेरते दीर्घनिद्राशीढाभवन्तीत्यर्थः । म्रियन्ते, न पुनरवशिष्यन्त इत्यभिप्रायः |