पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ११० ) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चमः -- पुनरन्तिके उत्सुकायमांना प्रतोपायसे स सर्वो जनः दुःखायते दुःखं वेद- यते । सुखदुःखशब्दाभ्यां 'सुखादिभ्यः कर्तृवेदनायाम् |३|१|१८|' इति क्यङ् उत्सुकप्रतीपशब्दाभ्यां भृशादित्वात् ॥ ७४ ॥ कः पण्डितायमानस्त्वामादायाऽऽमिषसन्निभाम् । त्रस्यन् वैरायमाणेभ्यः शून्यमन्ववसनम् ॥ ७५ ॥ क इत्यादि – पण्डिताय मानः अपण्डितः कथमपि पण्डितो भवन् । भृशा- दित्वात् क्यङ् | त्वामामिषसन्निभां सर्वजनप्रार्थनीयत्वात् । आदाय गृहीत्वा कः शून्यं वनमन्ववसत् । शून्ये वने अवसदित्यर्थ: । 'उपान्वध्याङ्क्षसः ११|४|४८|' इति कर्मसंज्ञा । कीदृशः | त्रस्यन् बिभ्यत् । वैरायमाणेभ्यः वैरं कुर्वाणेभ्यः । 'शब्दवैरकलहाभ्रकण्व मेघेभ्यः करणे |३|१|१७|' इति क्यङ् । ‘ भीत्रार्थानां भयहेतुः |१|४|२५|' इत्यपादानसंज्ञा ॥ ७५ ॥ ओजायमाना तस्याऽर्ध्य प्रणीय जनकाऽऽत्मजा | उवाच दशमूर्धानं साऽऽदरा गद्गदं वचः ॥ ७६ ॥ ओजेत्यादि – एत्रमुक्तवति रावणे जनकसुता दशमूर्धानमुवाच । द मूर्धानः शिरांसि यस्य तस्यार्घ्यं प्रणीय दत्त्वा अतिथिरयमिति । सम्प्रदानस्य शेषत्वेन विवक्षितत्वात् षष्ठी । 'ओजायमाना ओज इवाचरन्ती 'कर्तुः लोप | ३|१|११|' 'ओजसोऽप्सरसो नित्यम्' इति वचनात् । मां माभिभूदित्यतितेजस्विनी भवन्तीत्यर्थः किमुवाच वचो वक्ष्यमाणम् । क्यङ् सादरा सतो । परित्राजक इति । गद्गदमनभिव्यक्तमसंस्कृतत्वात् ।। ७६ ।। अथ चतुभिः कलापकम् । महाकुलीन ऐक्ष्वाके वंशे दाशरथिमम । पितुः प्रियंकरो भर्ता क्षेमकारस्तपस्विनाम् ॥ ७७ ॥ महेत्यादि-यदुक्तं तेन के रहस्युपतिष्ठत इति । अस्य प्रतिवचनं मम भर्ता महाकुलीनः महाकुलस्यापत्यमिति । 'महाकुलादञ्खनौ |४|१|१४१ इति खञ् । किमादित्यवंशसंभवः । किं सोमवंशसंभवो वा महाकुलस्यापत्य- मित्याह | ऐक्ष्वाके वंशे इक्ष्वाकूणामयमैक्ष्त्राकः । 'दाण्डिनाय नहास्तिनाय - नाथवणिक जैा। शिनेयवाशिनायनि श्रौणहत्यथैवत्य सारवैयाक मैत्रेयहिरण्मया- नि । ६|४|१७४ |' इति टिलोपनिपातनम् । अन्ये तत्र सन्तीत्याह दाशरथिः दशरथस्यापत्यं यः स मम भर्ता | महाकुलीनः । कीदृशः । पितुः प्रियंकरः अनुकूलकारी । तपस्विनां च क्षेमकार: | 'क्षेमप्रियमद्रेऽग च |३|२|४४।' इति चकारात् खच् ॥ ७७ ।।