सर्गः ] प्रकीर्णकाण्डम् | ( १०९ ) ४।७४ |' इति गतिमासः । गतिसमासे ल्यबादेशः । अहमभिमन्ये किं मि श्रीः श्रियंमन्या अहमेव श्रीर्नान्येति मन्यमाना श्रीर्मिथ्या नैव श्रीः किन्तु त्वमेवेति । 'आत्ममाने खश् ||३|२|८३|' | 'दिवादिभ्यः श्यन् |३||६९॥ 'इच एकाचोऽम्प्रत्ययवञ्च |६|३|६८|' इत्यम्भावः । तस्यामः प्रत्ययत्वान्म- लोपाभावः । 'न विभक्तौ तुस्माः |१|३|४|| इति वचनान् । अचीतीया- देशः । विवन्ता धातुत्वं न जहतीति किव्वचीत्यादिना श्रयतेरौणादिकः विप् | हरिश्चात्मानं श्रीमन्तं मन्यमानो मृषा न श्रीमानित्यहमभिमन्ये ॥७१॥ नोदकण्ठिष्यताऽत्यर्थं त्वामैक्षिष्यत चेत् स्मरः । खेलायन्ननिशं नापि सजूःकृत्य रतिं वसेत् ॥ ७२ ॥ नोदेत्यादि-स्मरभार्या रतिः सापि रूपेण निकृष्टेति दर्शयति । चेत् यदि स्मरः त्वामैक्षिष्यत दृष्टवानभविष्यत् तदा अत्यर्थ नोदकण्ठिष्यत रतिं प्रति भृशमुत्कण्ठितो नाभविष्यत् । 'ईक्ष दर्शने' इति, 'कठि शोके' इति भौवादिकात् क्रियातिपत्तौ लङ् । नापि रतिं स्वभार्या सजूः कृत्य सहायीकृत्य वसेत्, अपि तु परित्यजेत् । अत्र क्रियातिपत्तिर्न विवक्षिता किन्तु हेतुहेतु- मद्भावः । नापि रतिं सजूःकृत्य वसेत् यदि त्वामीक्षेतेति हेतुपदमभ्यूह्य हेतुमद्भावदर्शनात् । ऊर्यादिषु 'सजू: सहार्थः' इति वचनात् गतिसंज्ञा । खेला-- यन् अनिशं क्रीडन् सर्वदा । खेलाशब्दात् कण्डादित्वात् यक् ॥७२॥ वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का । कान्ति नाऽभिमनायेत को वा स्थाणुसमोऽपि ते ॥ ७३ ॥ वग्वित्यादि- त्वां वल्गूयन्तीं शोभमानां विलोक्य न मन्तूयति स्त्रीह का । इह जगतिका स्त्री न मन्तूयेत् कुप्येत् । सर्वदा कुप्यत्येव ईर्ष्यायु- क्तत्वात् स्त्रीणाम् । असम्भावने लिङ् । वल्गुमन्तुशब्दाभ्यां कण्डादि- त्वाद्यक् । को वा को नाम स्थाणुसमोऽपि काष्ठतुल्योऽपि गुणदोषानभिज्ञत्वा- ते तब कान्ति विलोक्य नाभिमनायेत् पूर्वमदृष्टत्वादनभिमनाः सन् अभि- मनाः सचेता न भवेत् । पूर्ववल्लिङ् | अभिमनसो भृशादित्वात्क्यङ् सलो- पश्च। महादेवतुल्यो वा आस्तामन्यः सोऽपि तावदभिमनायेतं ।। ७३ ॥ दुःखायते जनः सर्वः स एवैकः सुखायते । - यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके || ७४ ॥ दुःखेत्यादि-स एवैको जनः सुखायते सुखं वेदयते । यस्यान्तिके समीपे न त्वं प्रतीपायसे न प्रतिकूलवर्तिनी भवसि । उत्सुकायमाना सती । यस्य
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१४७
दिखावट