पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१०८) भट्टिकाव्ये जयमङ्गलासमेते- “नपुसंके भावे क्तः | ३|३|११४|१|| 'अनुदात्तोपदेशव नतितनोत्यादीनामनुना - किलोपो झलि कति |६|४|३७ | इत्यनुनासिकलापः । अनेनोभयरुचि- राख्याता ॥ ६८ ॥ परिपर्युद्धे रूपमाद्युलोकाच्च दुर्लभम् । भावत्कं दृष्टवत्स्वेतदस्मास्वधि सुजीवितम् ॥ ६९ ।। - [ पञ्चमः - परीत्यादि -- एतद्रूप भावत्कं भवत्या इदमिति 'भवतष्ठकुछसौ । ४।२। ११४।' इति ठक्छसौ । ‘ठक्छसोईचोपसंख्यानम्' इति पुंवद्भाव: । 'इसुसुक्ता- तात्कः |७|३|५|१|' दुर्लभ परिपर्युद्धेः 'अपपरी वर्जने कर्मप्रवचनीयसंज्ञायां द्वितीयायां प्राप्तायां १४८८ |२|२|१०' 'पञ्चम्यपाङ्परिभिः इति पञ्चमी । 'अपपरिबहिरञ्चवः पञ्चम्या |२|१२|१२|| इति विभाषास- मासश्च । असमासपक्षे ‘परेर्वर्जने |८|१|५|' इति द्विवचनम् । उदधिं वर्ज- यित्वा चतुरुदधिमेखलायां भुवि दुर्लभमाधुलोकाच्च स्वर्गलोकान्तं च यावत् दुर्लभमत्रापि पूर्ववत्पञ्चमी । तादृशं दृष्टवत्स्वस्मासु अधिसुजीवितमस्म- द्विषये आधिक्येन सुजीवितम् । अहो वा सुजीवितमिति अहोशब्दार्थ अधिशब्दो वर्तते ॥ ६९ ॥ 1 आपीतमधुका भृङ्गैः सुदिवेवाऽरविन्दिनी । सत्परिमललक्ष्मीका नाऽपुंस्काऽसीति मे मतिः ॥ ७० ॥ - आपीतेत्यादि – परि सर्वतो मार्जनमिति परिमल: । कलत्रपश्चेत्यधिकृत्य 'मृजेष्टिलोपश्च' इति कलप्रत्यय औणादिकः । इह सुरतोपभोगविमर्दः परिमलोड- भिप्रेतः । तस्य लक्ष्मीः । तत्कृतत्वात् । सती विद्यमाना परिमलशोभा यस्याः ‘डरःप्रभृतिभ्यः कप् |५|४|१५१११ सा त्वमपुंस्का अविद्यमानभर्तृका ना- सीति मे मतिः । पूर्ववत्कप् | किमिव सुदिवेवारविन्दिनी पद्मिनी । शोभनं दिवा नीहाराद्यभावादिवा दिवसं यस्याः । 'सुप्रातसुश्वसुदिवशारिकुक्षचतुर- श्रेणीपदाजपदप्रोष्ठपदाः |५|४|१२|' इत्यच् | आपीतमधुका भृङ्गैः आपीतं मधु यस्याः । 'शेषाद्विभाषा |५|४|१५४|| इति कप् । यथेयं सत्परिमल - · लक्ष्मीका तथा त्वमपीति ।।७०॥ मिथ्यैव श्रीः श्रियम्मन्या श्रीमन्मन्यो मृषा हरिः । साक्षात्कृत्याऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः ॥ ७९ ॥ मिथ्यैवेत्यादि–श्रियः श्रियं रूपसम्पदं हरन्तीमभिभवन्तीं त्वां साक्षा- कृत्य प्रत्यक्षीकृत्य | विभाषा कृमीत्यनुवर्तमाने 'साक्षात्प्रभृतीनि च । १।